SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ३५ चरित्रनेतुस्तीर्थयात्राकरणम् । सिद्धपूरे उपधानम् । महत्तपः श्रीउपधान नामाऽ नुष्ठातुकामा नगरे च तस्मिन् ॥२०९॥ भुजङ्गप्रयातं - तदन्ते समग्रास्तपः कर्तृलोकाः, प्रवृत्ते सुचारूत्सवेऽनेकधा हि । गुरोः पाणि-पद्म-प्रदत्ताः सुमाला, ___ अवाक्षुः शिरोभिः प्रहर्ष-प्रकर्षात् ॥२१०॥ उपजातिः - आष्टाहिकं चारुतरं ह्यपूर्वं, गुरूपदेशाद् व्यदधुश्च पौराः । महोत्सवं प्रत्यहमेतकेऽस्मिन्, प्रभावनाः श्रीफलकाऽऽदिभिश्च ॥२११॥ स्वधर्मिवात्सल्यमनेकमस्मिन्, जीवाऽनुकम्पाऽऽदिषु भूरिदानम् । शान्त्यादिकस्नात्र-समर्चनं च, श्रद्धालवस्ते कृतिनः प्रचक्रुः ॥२१२॥ द्रुतविलम्बितम् - विहरमाण इतः करुणानिधिः, ___ प्रथित-वालम-तीर्थमुपागतः । प्रभुमुदीक्ष्य सुनम्य नृजन्मतां, सफलतामनयत्स यतीश्वरः ॥२१३॥ वसन्ततिलका - कृत्वा विहारमुमतानगरं प्रपन्नः, श्रीमद्गुमानविजयाऽऽख्य-गुरोः शरीरे ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy