SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् नथ्वाख्य-सच्छेष्ठि-निकेतन-स्थितः, कश्चित् पटेलः शुभ-बेचराऽभिधः । प्रोद्भूत-वैराग्य-विशेष-वासितः, श्रीसद्गुरोस्तस्य पदाब्ज-माश्रयत् ॥१९२॥ उपजातिः - डाह्याऽभिधानोऽपि तथैव भूरि __संसार-वैराग्यमभिप्रपन्नः । अशिश्रियद् गौरव-पाद-कल्प वृक्षं मुमुक्षुर्भव-वार्धि-मध्यात् ॥१९३॥ इमौ ततः श्रीमुनिराजपार्श्वे, लग्नौ समध्येतुमुभौ सुखेन । शाब्दं सुशास्त्रं महता श्रमेण, ग्रन्थांस्तथा प्राकरणाननेकान् ॥१९४॥ क्रमात्तदही समधीत-शास्त्री, ___प्रावाजयत्तौ मतिमान् सुलग्ने । क्रमात् सुखाब्धिर्विबुधश्च नीतिः, श्रीमान् महीयान् बहु-शास्त्र-विद्वान् ॥१९५॥ धियः प्रकर्षाद् धृतवांस्ततोऽस्य, कुशाग्र-बुद्धेः स हि बेचरस्य । बुद्ध्युत्तरं सागर-नामधेय ___माचार्यतामापदयं हि पश्चात् ॥१९६॥ डाह्याऽभिधानस्य च नामधेयं, श्रीदानपूर्वं विजयं प्रचक्रे।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy