SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ ४५९ इर्षालवानामुपशमनं राजदण्डैः । अतो वयं तत्करणे विरोधं, बहुं करिष्याम इतो मिलित्वा । एवं विचिन्त्यैकमतेन सर्वे, विनार्थमुद्योगमकापुरेते ॥३०७॥ अमूं प्रवृत्तिं प्रविबुध्य तेषां, समादिशत्तन्नगराधिराजः । संप्रेष्य भृत्यं निजशासनेन, न्यवेदयद्वृत्तमिमांस्तदानीम् ॥३०८॥ आचार्य आसीद् गुरुनीतिसूरि र्योगीश्वरः पूततमान्तरात्मा । अतोऽतिपूज्यस्य मुनीश्वरस्य, ___ संमानदानं भवतीति योग्यम् ॥३०९॥ आशावरी स्वर्णमयी सुखेन, प्रभूतमूल्या परिधापनीया । केनाऽपि बाधा खलु नैव कार्या, बाधाकराः स्युपदण्डनीयाः ॥३१०॥ आदेशमेतं नगराधिपस्य, श्रुत्वा समे स्थानकवासिनस्ते आसन् स्वकार्ये शिथिलप्रयासा खला लभन्ते खलताफलं हि ॥३११॥ अभूज्जयोद्घोषणमुच्चकैश्च, तदा सतां मन्दिरमार्गिणां वै ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy