SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ वांकलीनगरे उपधानहेतु विज्ञप्तिः मुहूर्त प्रदानम् । वंशस्थ: - 'सहस्यमासस्य सितेतरे दले, तिथौ दशम्यां शुभवासरे वरे । दत्तं मुनीन्द्रैः प्रथमं मुहूर्तकं, सुयोगयुक्तं सुभलग्नसंवृतम् ॥८७॥ उपजाति: तस्यैव मासस्य च कृष्णपक्षे, चतुर्दशी श्रेष्ठतिथौ सुवारे । अदुर्मुनीन्द्रा द्वितीयं मुहूर्तं, ज्योतिर्विदो भव्यहितैषिणस्ते ॥८८॥ संप्रार्थयेतां च धनीश्वरौ तौ श्रीमत्फतेलाल - सुचन्दुलालौ । वयं न विज्ञा उपधानरीत्या - मतः समेयुस्त्वरया भवन्तः ॥८९॥ तां प्रार्थनामाग्रह-भावपूतां, बुद्धोपधानस्य विधानकृत्यै । श्रीमार्गशीर्षस्य सिते हि पक्षे, सूरिर्व्यहार्षीत् शिवगंजपुर्याः ॥९०॥ वसन्ततिलका सप्त-ग्रह-ग्रह-विधुप्रमिते सुवर्षे (१९९७ ) श्रीमार्गशीर्षशुभमाससिते च पक्षे । सूरीश्वराः स्वपरिवारयुताः समागुः, उपजातिः - श्रीवांकलीनिवसथे हि तिथौ दशम्याम् ॥९१॥ श्रीवांकलीग्रामनिवासिनोऽपि, मुदा महाडम्बरवाद्यपूर्वम् । सूरीश्वराऽऽतिथ्यविधानकार्यं, ४१७ पुरप्रवेशे समकार्यरुच्चैः ॥९२॥ काले च तस्मिन् विजयादिभाज, आचार्यवर्योत्तमनीतिसूरे: । १. पौषमासस्य । २. ग्रामे ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy