________________
४१२
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् मुनय इति सुशीलाः संख्ययाऽऽसन्नविंशा', ___मुनिपविजयनीतिसूरिपार्श्वे तदाऽऽसन् ॥६०॥
(चतुर्भिः कलापकम् ।) उपजाति: - अस्मिश्चतुर्मासनिवासकाले, सूरीश्वरोदारसमाश्रये च । द्वाविंशतिरुत्तमदर्शनाढ्याः, साधूत्तमाः साध्वीवराश्च पुण्याः ॥६१॥ चारित्रयुक्ता जिनधर्मचित्ता, ज्ञानैर्वरिष्ठा विनयैकनिष्ठाः । व्यधुर्हि योगोद्वहनं हितं ते, श्रीसूरिपार्श्वे सुविधानपूर्वम् ॥१२॥
(युग्मम्) आर्या - कतिचित्तत्र मुनीन्द्रा, योगोद्वहनं व्यधुः सूरिपार्श्वे ।
उत्तराध्ययननाम्नः, सूत्रस्य सुन्दराध्ययनस्य ॥६३॥ शालिनी - केचिद् योगं चाऽवहन् साधुधुर्या,
आचाराङ्गाख्यस्य सूत्रस्य धर्म्यम् । अन्ये केचित् कल्पसूत्रस्य योग,
तत्र श्रीमत्कल्पवृक्षप्रभावम् ॥६४॥ उपजातिः - महानिशीथाख्यमहत्तमस्य,
सूत्रस्य योगं व्यदधुश्च केऽपि । तथाऽपरे सूत्रकृताङ्गयोगं,
साधूत्तमाः साधितवन्त ईड्यम् ॥६५॥ १. एकोनविंशतिः ।