SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ राजनगरे दीक्षाप्रसङ्गाः । पानसरतीर्थे चैत्रमासस्य ओलिका । उपजाति: समृद्धिमन्मोहमयीपुरीतः, श्रीमन्नवादिपदराधकाग्र्य श्रीलालबागाख्यनिवासवित्ताः । समाजसंचालकसभ्यमुख्याः ॥ २५ ॥ आर्या ग्रामे पानसराभिध - पवित्रतीर्थे श्रीचैत्रमासस्य । ओलिकामहे समेतुं, सूरिमामन्त्रयन्त तत्रेत्य ॥२६॥ ( युग्मम् ) उपजाति: अत्याग्रहेणादृतवन्त एषां, तां प्रार्थनां सूरिवरास्तदानीम् । विहृत्य तस्मात् परिवारयुक्ता, भव्यप्रबोधाय निबद्धचित्ताः ॥२७॥ ग्रामोत्तमं खोरजनामरम्यं, कल्लोलनाम्ना च पुरं प्रसिद्धम् । अन्यांश्च मार्गस्थितखेटकान् वै, ग्रामानलंकृत्य तथा पुराणि ॥ २८ ॥ इत्थं विहारे भविकात्मबोधं, कुर्वन् स बेण्डादिकवाद्यपूर्वम् । सूरीश्वरोऽगाद् बहुमानपूर्वं, ४०५ शिष्यैः समं पानसराख्यतीर्थम् ॥२९॥ ( युग्मम् ) ओलीमहं तत्र विधानपूर्वं, महामहाडम्बरभावयुक्तम् ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy