________________
३९६
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् वसन्ततिलका - पन्न्यास-रत्नविजयप्रभु-शिष्य-पन्या
सोपाधिमद्विबुध-मोहन-सन्मुनीन्दोः । अन्तेनिवासि-मुनिपुङ्गव-शान्तिनामा,
पन्यासभाक् स्व-परशास्त्रविचारदक्षः ॥७७॥
इन्द्रवज्रा -
सद्राजपूर्वे नगरे डहेल
सूपाश्रये ख्यात-महाऽऽसिकायाम् । पन्यासभाग् रत्नविजिन्महारा
जस्याऽर्कशिष्येष्वधुनैतयोहि ॥७८॥ वसन्ततिलका - पन्यास-भावविजयस्य महीयसश्च,
पन्यासभाग्विजय-मोहन-सन्मुनीन्दोः । अद्याऽवधि-प्रथित-शिष्यपरम्पराऽत्र, पोपूज्यते सकलजैन-जनैश्च भक्त्या ॥७९॥
(युग्मम्) उपजाति: - तयोश्च पन्यासपदाऽङ्कितस्य,
श्रीभावनाम्नः परिवार-संख्याम् । प्रदर्श्य पन्न्यास-पदाऽञ्चितस्य,
प्रदर्श्यते सा प्रभु-मोहनस्य ॥८॥
१. 'गादी' इति भाषायाम् ।