SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ ३८१ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजाति - तदीय-शिष्यो मुनिनायको हि, जितेन्द्रियेषु (याणां) खलु नायकोऽभूत् । अखण्डबोधिस्तपसि प्रकृष्टो, दिवं गतोऽर्हत्सु विलीनचित्तः ॥५॥ मालिनी - रविविजयसमाख्यो योग्यशिष्यो द्वितीयः, सतत-विहरमाणो नैकदेशेषु धीमान् । गुणिजन-गणनीयः शुद्धचारित्रशाली, शुभगति-मतिदायी वर्तते श्रावकाणाम् ॥६॥ अरुणकिरणकान्तः शान्त-दान्तस्तृतीयो, __मुनिवरसुमतस्य श्लाघ्यचारित्रभाजः । अरुणविजयनामा दीप्तधामा विनेयो, जिनवर-गुरुभक्तो विद्यते धर्मसक्तः ॥७॥ वसन्ततिलकावृत्तम् - पन्यासभावविजयस्य गणीश्वरस्य, आसीद् ऋजूत्तमधियो हि तृतीयशिष्यः । गम्भीरपूर्वविजयेतिशुभाभिधानः, ___ सम्यक्त्वतत्त्वविदुरश्छिदुरोंऽहसां यः ॥८॥ उपजाति: - ख-वेदवर्षाणि च पालयित्वा, चारित्ररलं जनदुर्लभं सः । प्रान्ते तपस्यां कठिनां विधाय, सत्स्वर्गलोकाभरणं प्रजातः ॥९॥ (युग्मम् )
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy