SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ३२६ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् श्रीभीलवाडेत्यभिधाप्रसिद्धं, ग्रामं ततः कोटडिनामवित्तम् । इत्यादिसद्ग्रामभुवं मुदा ते, विहृत्य धर्मोद्धृतिमत्यकार्षुः ॥७७७॥ अनेकभव्यान् भववर्त्मनीत्थं, भ्रान्तान् भ्रमाद् भव्यजिनोपदेशैः । जिनोक्तसत्ये वरधर्ममार्गे, प्रास्थापयन् सूरिवरास्तदानीम् ॥७७८॥ ततोऽगमन् संघसमस्तमान्या, - धर्म्मोपदेशे च सदा वदान्याः । आचार्यवर्याश्चमलेश्वराख्ये, तीर्थे पुराणे समतीर्थमुख्ये ॥७७९ ॥ शार्दूलविक्रीडितम् - लोके नाऽतितरां प्रसिद्धिगमके तीर्थे पुराणे परे, उच्चैः पर्वतश्रृङ्गभृषणसमं देवालयं राजते । भव्य श्रीश्चमलेश्वराऽभिधजिन श्रीपार्श्वनाथप्रभो स्तस्मिन् वेलुमयी सुमूर्तिरधुना राराज्यमानाऽस्ति हि ॥७८० ॥ उपजाति: किञ्चापि सेयं प्रतिमा पुराणा, चतुर्थ आरेऽपि विवर्तमाना । प्रागष्टलक्षाब्दविवर्तनीति, लोकश्रुतिरप्यनुभूयतेऽत्र ॥७८१ ॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy