SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ ३१३ पट्टने संघक्लेशे नष्टे नवकारशी प्रभुत्युत्सवः । शार्दूलविक्रीडितम् - अस्मिन् प्रीतिकरे नृणां हितकरे सौख्यप्रसङ्गे तदा, श्रीमत्पट्टनपू:स्थिते हि सकले श्रीजैनदेवालये । वादित्रादिकगायनादिसहितं नृत्यादिपूजापरं, श्रीसंघः समकारयद् वरमहं साडम्बरं हर्षतः ॥७१४॥ श्रीतीर्थेश्वरमन्दिरेषु परितस्तस्मिन् पुरे पुण्यदाः, प्रारभ्यन्त सुधार्मिकाश्च कृतयः साधर्म्यवात्सल्यदाः । यासु श्रावकवर्ग ऐक्यजनकश्च श्राविकाणां गणः, संघस्योभयपक्षयोः सुखकरो हर्षावृतः संगतः ॥७१५॥ श्रीमत्पट्टनपूर्निवासिजनतास्नेहार्द्रचित्ते तदा, आचार्ये विजयादिनीतिविदिते सूरीश्वरे शर्मदे । तच्चारित्र-सुबोध-शील-समता-ऽतुल्यप्रभावादिषु, सद्भावः समजायत पृथुतरः सर्वस्य सौख्यप्रदः ॥७१६॥ उपजाति: - श्रीपट्टनाख्यं नगरं तदानीं, सन्नीतिसूरेर्जयघोषणाभिः । शब्दायमानं सकलं समन्ताद्, आसीत् स्वधर्मोद्धृतिकारिणीभिः ॥७१७॥ आगम्यते यत्र सदागमज्ञै रेतादृशैः सत्पुरुषैर्महद्भिः । शाम्यन्ति तत्रस्थमनुष्यवर्गे, कषायजन्याः खलु वैरभावाः ॥७१८॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy