SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ३१० आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् एतस्मिन् समये च पट्टनपुरे श्रीश्रावकश्रेणिषु, . द्वौ पक्षौ प्रविरोधतः स्वतितरां जातौ हि मिथ्याग्रहात् । एकः श्रीयुवसंघ आत्ममतपोऽन्यो जैन-सोसायटिः, संघक्लेशकरौ समाऽसुखकरौ वृद्धि गतौ सर्वदा ॥६९९॥ सोऽयं पट्टनवासिजैनजनतासंक्लेशदावानलो, योऽन्योऽन्यप्रविरोधकार्यकरणैर्जाज्वल्यमानः सदा । विद्वेषो विषसन्निभोऽथ तकयोस्तावत् प्रवृद्धि गतः, सप्ताष्टाधिकवर्षतोऽन्यपरयोर्भोज्यादिकृन्नाऽभवत् ॥७००॥ उपजाति: - इत्थं विरोधे परिवर्धमाने, संघस्य पक्षद्वयके तदानीम् । कन्यादिदानं व्यवहारकार्य, अन्योऽन्ययोर्नाऽभवदेव कुत्र ॥७०१॥ एतादृशक्लेशविनाशनार्थं, श्रीपट्टनाख्यस्य पुरान्तरस्य । सत्क्षेत्रयुक्खेतरवासनाम्नः, ___ सत्पाटकस्योभयपक्षमुख्याः ॥७०२॥ श्रीशासनोद्धारकसूरिवर्य, सत्पट्टनाह्वस्वपुराय नेतुम् । न्यवेदयन् साग्रहभावपूर्ण, श्रीसंघसंक्लेशविनाशनार्थम् ॥७०३॥ श्रीजैनसंघेषु तदा वदान्यः, श्रीनीतिसूरीश्वरसूरिवर्यः ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy