SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ ३०८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् श्रीराधनादि( दौ )पुरनामपुर्यां, गुरूत्तमानां सविधे-विधानैः । महोपधानोद्वहनाभिधानं, तपः प्रसिद्धं समकारयत् सः ॥६८९॥ (युग्मम्) शार्दूलविक्रीडितम् - चातुर्मासविधौ विधानसहिते संपूर्णतामागते, श्रीमत्पूनमचन्द्रनामधनिनः पुत्रस्य धर्मात्मनः । 'वाडीलाल' इति शुभाह्वकृतिनः सत्प्रार्थनाप्रार्थितः, सूरीस्तस्य गृहे दयोदयवशात् स्थानान्तरं विव्यधात् ॥६९०॥ श्रीमत्कार्तिकमासि मासमहिते श्रीकृष्णपक्षान्तरे, सल्लग्नाऽन्वितसद्ग्रहद्विकदिने श्रीशैवगञ्जीयकम् । एकं श्रावकभूषणं गृहिवरं सूरिस्तदाऽदीक्षयत्, कृत्वा श्रीभरतादिमं विजयभाक् तस्याऽभिधानं शुभम् ॥६९१॥ मालिनी - सुमतिविजयनाम्नः शुद्धबोधैकधाम्नो, मुनिवरगणदाम्नः शिष्यमिष्टं व्यधात् सः । भरतविजयसाधुं शीलसा, मुनीशो, विनयगुणगरिष्ठं ब्रह्मरक्षापटिष्ठम् ॥६९२॥ उपजातिः - तथा च पौषाऽसितपुण्यपक्षे, षष्ठयां तिथौ सौम्यदिने सुलग्ने । श्रीशैवगंजीयगृहस्थमन्यं, सूरीश्वरो भव्यमदीक्षयत् सः ॥६९३॥ १. 'वाडीलालशुभाभिधानकृतिनः', इति साधु प्रतिभाति.
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy