SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ नीहालचन्द्रस्य वैराग्यम् । ११ स्वधर्मनिष्ठा जनकादयोऽपि, संसार - निस्तार- पथाऽधिरूढम् । मत्वा तमेवं शुभकृत्यरक्ता, विवेकिमुख्याः शुशुचुर्न किञ्चित् ॥७०॥ नाऽयं गृहे स्थास्यति कोटिशो ऽपि, कृतैः प्रयत्नैरधुना मया हि । इन्द्रवज्रा अतस्तदीयेदृश-धर्म-कार्ये, नैवाऽन्तरायं विदधीत कोऽपि ॥ ७१ ॥ इत्थं तदीयाऽखिल-बन्धुवर्गा निश्चित्य चित्तेषु तदर्थमोहम् । औज्झन् प्रसेदुश्च विलोक्य तस्य, मोक्षार्थितां हार्दिक - दाढभाजः ॥७२॥ सांसारिकाऽनेक- सखीनजस्त्रं, चक्षाण आसीदतिधर्मनिष्ठान् । मित्राणि ! मानुष्यमिदं दुरापं, लब्धुं न शक्यं मुहुरेतकस्मिन् ॥७३॥ लब्ध्वा कथञ्चिद्बहु- पुण्ययोगाच्चिन्तामणिप्रायमवश्यमेतत् । यतेत धीमानमृताय तूर्णं, मुधैव नो चेदिदमत्र याति ॥७४॥ यथा दिनेशः समुदेति कल्पे, यात्यस्तमप्येष दिनाऽवसाने । संसार-चक्रे भ्रमतश्च जन्तो- रुत्पत्ति - नाशौ भवतस्तथैव ॥७५॥ यद्गर्भवासे जनने च मृत्यौ, जाजायते दुःखमसह्यमेषाम् । दृष्ट्वाऽन्यदीयं तदवश्यमेव, सौवस्य तस्याऽनुमितिं विधत्ताम् ॥७६॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy