________________
देलधरनगरे उद्यापनादि । तालीयम् - मुनिमहेन्द्र-मङ्गल-प्रधी-मनोहरविजय-सम्पदाख्यकैः । अचीकरत्सूरिराडयं, भगवतीयोगमुत्तमं मुदा ॥४५७॥ विमलगच्छ-साधुकावुभौ, महेन्द्र-कल्याणेतिनामको । चक्राते चोपसूरि तौ, योगोद्वाहं संयताऽऽत्मकौ ॥४५८॥ औपच्छन्दसिकम् - व्याख्याने श्रावकीयधर्मान्,
आचरणमपि तदीयकृत्स्नकृत्यम् । उपदिदेश-सूरिराजवर्य
स्त्वमृतमयगिरा सर्व-भव्यजीवान् ॥४५९॥ उपजाति: - रेमन्त-कुथ्रोपरि जीर्णचैत्यो
द्धृतौ यथाशक्ति वसु प्रदातुम् । आदिष्टवानेष समस्त-सङ्घ,
श्रद्धालुकः सोऽपि तदर्थमाशु ॥४६०॥ सहस्रमेकादश रूप्यकाणि,
कुभारियाजीत्यभिधानतीर्थे । उद्धारहेतोरददाच्च मुद्रा
चतुःसहस्रं परमोत्सहिष्णुः ॥४६१॥ (युग्मम् ) लोकाः प्रचक्रुः सुतपांसि नाना- .
महोत्सवश्चाऽपि कियान् बभूव । ऊर्जे सिते मारतिथौ महेन्द्र- -... -
__ मुनेश्च पत्र्यासपदं ददौ सः ॥४६२॥