SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् शतद्वयी चाऽऽर्हत- सज्जनानां सम्यक्त्वभाजां वरिवर्त्यमुष्याम् । सत्कीर्ति-लक्ष्मी-गुरुदेव-भक्ति- श्रिताऽऽत्मनां दुष्कृतवर्जितानाम् ॥३१॥ वसन्ततिलका - 1 प्राग्जन्म - भूरि-समुपार्जित - पुण्ययोगादेवाऽत्र जन्मनि नरः समुपैति नूनम् । दीर्घाऽऽयु-रुच्चकुलजत्व - सुबुद्धिकत्वं, सर्वेन्द्रियाऽतिपटुतां भवरोगहृत्त्वम् ॥३२॥ यद्भासतेऽधिकसमुन्नत- वंशजन्म, I तत्राऽप्यहिंसनमयाऽतुल- जैनधर्मः । मोक्षार्थिताऽऽत्मवशिताऽऽदिकमत्र पुण्यपुञ्जं विना भवति नुर्दुरवापमेव ॥३३॥ उपेन्द्रवज्रा चरित्रनेत्रा सुधियाऽमुनाऽपि दुरापमप्येतदवापि सर्वम् । तेनाऽनुमाम्यस्य भवान्तरीय-सम्पादिताऽमेय - सुपुण्यराशिम् ॥३४॥ आसन्नमुष्याऽधिक-धर्मनिष्ठाः, श्रीभायचन्द्रो जशराजनामा । माणिक्यचन्द्रश्च सहोदरास्ते, ज्यायांस आसीद्भगिनीद्वयञ्च ॥ ३५ ॥ बालोऽपि गम्भीर - सुतीक्ष्णबुद्धि-वयस्यवर्णैः सह नाऽत्यरंस्त । नैवाऽप्रियं जात्वपि सम्बभाषे, प्रीणञ्जनानात्म-वचः सुधाभिः ॥ ३६ ॥ वसन्ततिलका तन्मण्डलीय - शिशु-शिक्षण-राज-विद्याशालामसावविशदच्छ- कुशाग्रबुद्धिः । षष्ठीं समामधिगतश्चतुरः सुवक्ता, मेधाविषूत्तमतमोऽभ्यसितुं प्रलग्नः ॥३७॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy