SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ २ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् शार्दूलविक्रीडितम् येषां जीवनमुज्ज्वलं सुकृतिनां जाजायते प्राणिनां कामाऽऽदि - प्रविमुक्तमेव हृदयं शश्वद्दरीदृश्यते । संसारीयमशेषवस्तु नियतं स्वप्नेन्द्रजालोपमं, ये पश्यन्ति त एव धन्यमनुजा वैराग्यवन्तो मताः ॥५॥ उपजाति: , एतादृशा एव महापुमांसः, क्षितौ परेषामपि जीवनानि, प्रकाश्य नैजाऽमल- जीवनाऽऽभां कुर्वन्ति चाऽऽदर्शमयानि नूनम् । मार्गे समुच्चे सहसाऽऽकृषन्ति, स्थातुं च लोकानितरांस्त एव, मोहाऽन्धकारक्षय- तीक्ष्णहस्ताः, परोपकारव्रतिनो महिष्ठाः ॥७॥ वसन्ततिलका तादृग्विशिष्ट-गतमोह-महाऽऽप्तपुंसा मेवानुकुर्वत उदारधियः समस्ताः । अत्युच्चकृत्यमपरे व्यवहारदृष्ट्या, तेनैव शीघ्रमतितुङ्गपदं लभन्ते ॥८॥ उच्चैस्तमाः परिबुभूषव आशु बालाः, कुर्वन्ति शिष्टजनताऽऽचरणं पवित्रम् । तादृग्भ्य एव वसुधातलपावनेभ्यः, शिक्षां परां बहुविधां सुखमाप्नुवन्ति ॥९॥ तेषां सुपूर्ण- शरदिन्दु- समुज्ज्वलाऽऽभां, कीर्तिं सतीं जगदिदं परिभासयन्तीम् । प्रज्ञावतामभिमतामतिशिक्षितास्ते, प्रख्यापयन्ति महतामपि तद्विधानाम् ॥१०॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy