________________
२१६ थी २५०
तत्रोपाश्रयविधापनं चतुर्मासावस्थानं च । ततो विहत्य श्रीशजयादितीर्थयात्रां कृत्वा राजनगरे चतुर्मासावस्थानम् । ततः पत्तनपुरे आगमनम्, संघेन च सह भद्रेश्वर-रैवताचलादितीर्थयात्रा । ततो जेतपुरे आगमनम्, उपधानतपोविधापनं च । वर्षानन्तरं राधनपुरे गमनम् । तत्रोद्यापनमहोत्सवः, मुनिरामविजयस्य बृहद्दीक्षा, पाठशालास्थापनं च । ततो विहत्य शर्खेश्वरादितीर्थयात्रां कृत्वा जूनागढनगरे आगमनम् । रैवतगिरौ उद्धारितचैत्यप्रतिष्ठा । ततो राजनगरे आगमनम् । तत्र मुनिमानविजयो-दयविजययोर्गणि-पदवीप्रदानं चतुर्मासावस्थानं च।
राजनगराद् विहृत्य केसरियातीर्थयात्रा । तत्र धर्मसिंहश्राद्धस्य दीक्षां दत्त्वा मुनिभक्तिविजयेति नाम दत्तम् । ततो राजनगरे आगमनम्, तत्रोद्यापनादिमहोत्सवान् कारयित्वा कपडवंजनगरे आगमनं चतुर्मासावस्थानं च । वर्षाकालानन्तरं मुनिमुक्तिविजयमोतीविजयो-दयविजय-तिलकविजय-कल्याणविजयानां गणिपन्ज्यासपदवीप्रदानम् । मुनिसुन्दरविजयस्य बृहद्दीक्षा मुनिमेरुविजयस्य च दीक्षा । ततो राजनगरे गमनम्, तत्र मुनिविनयविजयस्य दीक्षा । ततो मेसाणानगरे गमनम्, तत्र मुनिशुभविजयस्य दीक्षा । ततस्तारङ्गा-ऽर्बुदादितीर्थयात्रां कृत्वा सीरोहीपुर्यां मुनिशुभविजयस्य बृहद्दीक्षा । ततो देलधरे गमनम्, तत्रोद्यापनमहोत्सवः । ततो जावालपुरे मुनिदेवेन्द्रविजय-जीवविजय-योर्दीक्षा | चतुर्मासानन्तरं मुनिमहेन्द्रविजय पन्ज्यासपदवी, मुनिमङ्गलविजयमनोहरविजय-सम्पद्विजयानां गणिपदवी च । ततः सीरोही-मूछालामहावीर-राणकपुरदेसुरी-पाली-कापरडा-योधपुरादिषु विहत्य फलोधीपुर्यामागमनम् । ततः संघेन सह जेसलमेरतीर्थयात्रां कृत्वा फलोद्यामागमनम्, पन्न्यास-हर्षविजय-गणिवरस्य आचार्यपदवीप्रदानं चतुर्मासावस्थानम् उपधानतपोविधापनं मुनिभुवनविजयदीक्षा च । ततो विक्रमपत्तन-मेडता-सोजत-पाली-तखतगढा-ऽर्बुदाचलादिषु विहत्य राजनगरे गमनम् । तत्रोपधान-तपोविधापनम् । चतुर्मासानन्तरं मुनिप्रकाशविजय-भद्रङ्करविजय-योवृहद्दीक्षा मुनि सम्मेलनं च | ततो विहत्य मोहमयीनगर्यां गमनम्, तत्र चतुर्मासावस्थानम् । चन्दुलालश्राद्धस्य दीक्षादानपूर्वकं मुनिचरणविजयेति नाम दत्तम्।
मोहमय्या विहत्य क्रमेण वापीपुर्यामागमनं, तत्र च प्रतिष्ठामहोत्सवः । ततो बीलीमोरा-ऽमलसार-नवसारी-बारडोलीसगडीया-गन्धार-काव्यादिषु विहत्य खम्भातनगरे मुनिचम्पकविजयं
२५८ थी २८३