SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ १४७ योगोद्वहनसंबंध्युपदेशः। कुर्वन्ति ये ते नियतं भवन्ति, सज्ज्ञानवन्तः क्षिति-कीर्तिमन्तः । विशुद्ध-चित्ताः क्रमशः किलैवं, भूत्वा लभन्ते पदमव्ययं हि ॥८१४॥ (युग्मम् ) योगं विधायैव भवन्ति तानि, सूत्राणि संश्रावयितुं किलार्हाः । इत्येव शास्त्राणि समादिशन्ति, जैनानि सर्वाणि मुनीनशेषान् ॥८१५॥ अनिर्जिताऽशेष-हृषीकका ये, क्रमेण लोके शिथिलीभवन्तः । विनाऽपि योगोद्वहनं कियन्त स्तद्वाचयन्ति श्रमणा इदानीम् ॥८१६॥ कुबुद्धयस्ते जिनशास्त्र-मर्या दोत्थापनान्नारक-यातना हि । भोक्ष्यन्त एवाऽत्र कदापि केऽपि, न संशयीरन् परमाऽऽर्हतास्ते ॥८१७॥ श्रामण्य-शैथिल्यमियति वृद्धि, यथा यथा सम्प्रति साधुमध्ये । । तथा तथा वीर-विभूदितोऽय मनाद्यविच्छिन्न-विशुद्ध-धर्मः ॥८१८॥ लोलुप्यतेऽतो जगदेकधर्म त्राता चरित्राऽधिपतिः सुधर्मा । संवेगि-शैथिल्य-निराचिकीर्षु स्तदर्थमासीद्यतमान एषः ॥८१९॥ (युग्मम् )
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy