SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ ततः सूर्यपुरे गमनम् । तत्र प्रतिष्ठामहोत्सवः, गुरुसमीपे च भगवतीयोगोद्वहनम् । वर्षाकालानन्तरं गुरुदेवेन मुनीन्द्रश्रीनीतिविजयस्य गणिपदवीप्रदानम् । ततो रान्देरपुरे उपधान विधाप्य भोयणीतीर्थे गमनं, तत्रोद्यापनमहोत्सवः । ततो विहृत्य पादलिप्तपुरे गमनम् । तत्र चतुर्मासानन्तरं गुरुदेवेन मुनिराज श्रीनीतिविजयगणीश्वरस्य पन्न्यासपदवीप्रदानम् । पादलिप्तपुराद् विहृत्य रैवताचलतीर्थयात्रां कृत्वा वांकानेर - मोरबी - जामनगरादिषु अनेक भव्यान् प्रतिबोध्य राजकोटनगरे आगमनम् । चातुर्मासानन्तरं ततो विहृत्य राजधन्यपुरे आगमनम् । ततः संघेन सह विहृत्य सिद्धाचलतीर्थयात्रां कृत्वा पुना राजधन्यपुरे आगमनम् । वर्षाकालान्तरं संघेन सह केसरियातीर्थयात्रां कृत्वा राजधन्यपुरे आगमनम्, चातुर्मासावस्थानम्, उपधानतपोविधापनं च । राजधन्यपुराद् विहृत्य वाव - थरादादिषु लुम्पाकादीन् प्रतिबोध्य, साँचोरा -ऽर्बुदाचल - राणकपुर - नाडोल - घाणेराव - नाडलाइ - वरकणामूछालामहावीरादितीर्थेषु यात्राः कृत्वा, सादडीप्रभृतिपुरेषु विहृत्य, राजनगरे आगमनम् । तत्र मोहनलाल - ऋषभचन्द्रयोर्दीक्षा- दानपूर्वके मुनिमुक्तिविजय - राजविजयेति नाम्नी दत्ते । चतुर्मासानन्तरं शङ्खश्वरतीर्थे गमनं, प्रतिष्ठामहोत्सवः । ततो विहृत्य तारङ्गतीर्थे यात्रां कृत्वा वीसनगरे मुनितिलकविजयस्य दीक्षादानम् । वीसनगरे चतुर्मासावस्थानम्, उपधानादितपो - मालारोपणादिमहोत्सवविधापनं च । वर्षाकालानन्तरं ततो विहृत्य वीजापुरे गमनम् । तत्रोपधानतपोविधापनं मालारोपणा - ऽष्टानिकादिमहोत्सवाश्च । I ततो विहृत्य केसरियातीर्थयात्रां कृत्वा भोयणीतीर्थे आगमनम् । तत्र मुनिचन्दनविजयं दीक्षयित्वा वीरमग्रामे आगत्य चतुर्मासावस्थानम् । तत्रोपधानतपोविधापनं पाठशालास्थापनमष्टानिकादिमहोत्सवश्च । उजमसीश्राद्धस्य दीक्षादानपूर्वकं मुनि - उदयविजयेति नाम दत्तम् । ततो राजधन्यपुरे आगत्य, उदयविजयमुनिर्ज्येष्ठदीक्षां दत्त्वा, शङ्खेश्वरतीर्थयात्रां कृत्वा, राजनगरादिषु विहृत्य वीरमग्रामे मुनि कल्याणविजयस्य बृहद्दीक्षादानं, संस्कृतपाठशालास्थापनं च । ततो विविधग्राम-नगरेषु विहृत्य राजधन्यपुरे आगमनम् । चतुर्मासानन्तरं मुनिराज श्रीदानविजय- दयाविजय - हर्षविजय- देवविजय-भक्तिविजय- मुनिवराणां गणि- पन्न्यासपदवीप्रदानम् । ततो विहृत्य श्रीशत्रुंजय - शंखेश्वरतीर्थयोर्यात्रां कृत्वा वीरमग्रामे आगमनम् । चतुर्मासानन्तरं ततो विहृत्य केसरियातीर्थयात्रां कृत्वा ७७ थी ८३ ८४ थी १०७ १०७ थी १२७ १२७ थी १५१
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy