SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १२२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजातिः - प्रध्माय शङ्ख पुरमत्र शङ्ख- - - श्वरं विनिर्माय विधाय चैत्यम् । बिम्बं प्रतिष्ठाप्य तदम्बुनाऽसौ, सैन्यं विनिद्रं कृतवान्मुरारिः ॥६८२॥ द्वाविंश-तीर्थङ्कर-नेमिनाथ जिनेश-काले रचिता पुरीयम् । कृष्णेन चैषा प्रतिमाऽपि रम्या, चिरन्तनाऽत्यन्त-चमत्कृताऽस्ति ॥६८३॥ ज्योतिष्क-देवैरपि पूज्यमाना, लोके तदीये चिरकालमासीत् । लोकैरसंख्यैरधुनाऽपि भूरि चमत्कृतिः सन्ततमीक्ष्यते हि ॥६८४॥ भुजङ्गप्रयातम् - अधिष्ठातृ-देवी-सदाऽधिष्ठितेयं, समाराधिता सा ददाना समेषाम् । अमुष्मिन् नृलोके ध्रुवं कामधेनू यिता भाति शश्वत् समाऽतिभक्त्या ॥६८५॥ अपत्यैविहीनाः कियन्तो हि सन्तः, समाराध्य भक्त्या लभन्ते सुपुत्रान् । दरिद्राः प्रभूतं धनं चाऽऽशु यन्ति, भजन्ना किलैतां पनीपद्यते शम् ॥६८६॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy