________________
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
शान्तिविजयमुनिवर्यः, पन्यास - मोहनविजय- वर - शिष्यः । मासक्षपणं कृतवां-स्तदर्थमजनि महामहो वसुघस्त्रान् ॥६७१॥
मन्दक्रान्ता
१२०
गीतिः
उपजाति:
-
शान्तिस्नात्रं सकल - सुजनाश्चक्रिरे तत्र रम्यं, तन्माहात्म्यं प्रथयितुमिहाऽशेषपुर्यामनल्पम् ।
सप्तक्षेत्र्यामधिकमददुः स्वापतेयं महेभ्या,
धर्मोद्योतं व्यतनिषु-रमन्द-प्रमोदं दधानाः ॥६७२॥
संश्रावयामास जनानसंख्यान्,
असौ पवित्रं सुकृताङ्गसूत्रम् ।
आकर्ण्य लोकास्तदपूर्वमर्थं,
प्रमोदवार्थी सकला ममञ्जुः ॥६७३॥
धी - सद्म-निर्माण-कृतेऽवशिष्टं, लोकेषु टीपं परिपूर्णमेषः ।
व्यचीकरत्सर्वजनैरमोहः,
सर्वाऽऽगमाऽऽराधनमप्यभूच्च ॥ ६७४ ॥
शार्दूलविक्रीडितम् -
आत्म- ध्यानपरो महाश्रुतधरः पन्यास- नीतिः प्रभुः, सत्रा श्रीगुरुणा बहूपकृतवानत्रत्य - भव्यात्मनः । उद्दधेखिल-पुस्तकानि महताऽऽयासेन विद्वत्तमचातुर्मास्यमलञ्चकार बहुभिः शिष्यैः सुविज्ञैः समम् ॥६७५ ॥