SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ भोयणीतीर्थे महोत्सवं कृत्वा । पादलिप्तपूरमागमत् गुरुः। सा भोयणी ग्रामटिका किलैका, दैवाच्च कूपात्कुकवाय-पुर्याम् । श्रीमल्लिनाथ-प्रतिमाऽऽविरासीत्, तदर्थमेतत्पुरयोर्विवादे ॥४५६॥ अनःस्थिता सा प्रतिमा स्वयं हि, चचाल तस्मादृषभं विनाऽपि । तद्भोयणी-पत्तनमेत्य तस्थौ, तीर्थायते तद्दिवसात्किलैतत् ॥८५७॥ साध्व्यः कियत्यः श्रमणा अपीह, __ भूयांस एवाऽऽगतवन्त आसन् । चरित्रनेतुः शुभ-पाणिपद्माद्, विधिः समग्रः समभूदमुष्मिन् ॥४५८॥ याते च पूर्णत्वमपूर्व-चारू त्सवे तदीये मुनिराज एषः । विहृत्य तस्मान्निजमण्डलीयुक्, ___ तत्पादलिप्तं नगरं समागात् ॥४५९॥ शालिनी - अस्मादर्धक्रोश-दूरे महीयान्, उच्चैः शैलः सिद्धनामा विभाति । संख्याऽतीताः सन्मुनीन्द्रा हि तस्मिन्, सिद्धि प्रापुः संसृताऽब्धि-प्रतीर्णाः ॥४६०॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy