SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ चन्द्रराजचरित्रम् सप्तमः परिच्छेदः अघटितविचित्रघटना कुमारस्य परिणयः कथं कारयिष्यते ? कस्यापीत्थं वञ्चनं मह्यं न रोचते । कपटादन्यदिह महत् पापं नाऽस्ति । सत्कर्मणामिदं I कुठारवद् घातकोऽस्ति । | यतः , विधाय मायां विविधैरुपायैः परस्य ये वञ्चनमाचरन्ति । ते वञ्चयन्ति त्रिदिवापवर्ग-सुखान्महामोहसखाः स्वमेव ॥८४॥ अतो यथार्थं बोधयित्वैते परावर्तनीया यतो ज्ञात्वाऽपि देवकन्याऽनुरूपया राजकन्यया कुष्ठिनः स्वपुत्रस्य विवाहकरणं कदाप्युचितं न मन्ये । यदि च्छलं करिष्यामि तदा परभवे तस्य किमनिष्टफलं भोक्तव्यं भवेत्तन्न वेद्मि । यतः अनिष्टादिष्टलाभेऽपि न गतिर्जायते शुभा । यत्राऽऽस्ते विषसंसर्गो-ऽमृतं तदपि मृत्यवे ॥८५॥ अतोऽस्माद्दुष्कर्मतो दूरावस्थानमेव वरं प्रतिभाति, तत्र भवतः का सम्मतिरस्ति ? महाराजस्यैतद्वचनं श्रुत्वा मयोक्तम्पृथ्वीश ! कुमारस्य कुष्ठता साम्प्रतं यावत्केनाऽपि विदिता नाऽस्ति, यद्येष वृत्तान्तोऽगोपनीय एवाऽऽसीत्तदा गुप्तगृहे तस्य रक्षा कथं कृता ? आरम्भत एव मिथ्याप्रचारः कथञ्चिदपि कर्तव्यो नाऽऽसीत् । एतत्कृत्वाऽपि यदि मिथ्याप्रचारः कृतोऽभूत्पुनस्तत्साध्वसस्य का वार्तास्ति ? यावत्पर्यन्तं सुदिनमस्ति, तावदस्माकं कृतं सर्वं युक्तमेव भविष्यति । यतः || ८२ ।।
SR No.022562
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri, Jayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy