SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ चन्द्रराजचरित्रम् सप्तमः परिच्छेदः अघटितविचित्रघटना तन्निशम्य साञ्जली राजाऽवक्- हे प्रतिपाल्ये मातः ! प्रसन्नतया कृपां विदधत्यपि दूषितं जगन्निन्दापात्रं पुत्रं कथं प्रयच्छति ? यदि दातव्योऽस्ति तर्हि सुलक्षणान्वितं निर्दोषं पुत्रं ददातु । देव्यवोचत् - राजन् ! चतुरो भूत्वाऽपि त्वं कथं मूर्खायसे ? यो यत्कर्म करोति स तदनुरूपमेव फलं भुङ्क्ते । यतः - कृतकर्मक्षयो नास्ति, कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम् - ॥७७॥ जिनेश्वरचक्रवर्तिबलदेववासुदेवप्रतिवासुदेवसदृशानामपि कृतकर्म भोक्तव्यमेव भवति, तदा सामान्यपुरुषाणां का वार्ता ? यतः ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डभाण्डोदरे, विष्णुर्येन दशावतारगहने क्षिप्तो महासंकटे । रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः, सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ॥७८॥ यश्च सर्वं सुकृतमेव करोति स एव निरन्तरं सुखभाग् भवति परं पुण्यक्षये तु सर्वमेव क्षीयते । यतः तायच्चन्द्रबलं ततो ग्रहबलं ताराबलं भूबलं, तावत्सिद्ध्यति वाञ्छितार्थमखिलं तावज्जनः सज्जनः । मुद्रामण्डलतन्त्रमन्त्रमहिमा तायत्कृतं पौरुषं, यावत्पुण्यमिदं सदा विजयते पुण्यक्षये क्षीयते ।। ७४ ।। ॥७९॥
SR No.022562
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri, Jayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy