SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ चन्द्रराजचरित्रम् - षष्ठः परिच्छेदः वीरमतीगुणावल्योर्विमलापुरीप्रस्थानम् यो दृष्टो दुरितं हन्ति, प्रणतो दुर्गतिद्वयम् । सङ्घशार्हन्त्यपदकृत, स जीयाद्विमलाचलः ॥६४॥ कियद्दूरे गत्वा गिरनारतीर्थं दर्शयन्ती वीरमती जगाद, पश्य-गिरनारगिरिरागतोऽत्र राजुलपतिना श्रीनेमिनाथस्वामिना मुक्तिवध्वाः पाणिग्रहणं करिष्यते । एतत्तीर्थमपि सिद्धाचलानुरूपं फलप्रदं विद्धि । यदुक्तंस्पृष्ट्या शत्रुञ्जयं तीर्थं, नत्या रैवतकाचलम् । स्नात्या गजपदे कुण्डे, पुनर्जन्म न विद्यते ॥६५॥ इहैवैकस्मिन् स्थाने हस्तिनः पादो निमग्नोऽभूदतस्तत्र गजपदकुण्डं व्यरच्यत, अनेन क्रमेण नूत्नं नूत्नं तीर्थमीक्षमाणे ते उभे प्रसन्नतया विमलापुरीमभिचेरतुः । अग्रे निःसृत्य वीरमती प्राह-ईक्षस्व, इह नदीसमुद्रयोः संगमो भवति लवणोदधिरयं जम्बूद्वीपस्य चतुर्दिक्षु वलयाकारः पतितोऽस्ति विविधरत्नानामत्र राशिर्वर्तते । द्विलक्षयोजनायामस्तटे किञ्चिन्निम्नो मध्येऽगाधो दशसहस्रयोजनमिततटमध्यदेशोऽयमुदधिरस्ति, पुनरस्य सहस्रयोजनं निम्नत्वं चास्ति यस्य वीचयः षोडशसहस्रयोजनमूर्ध्वमुच्छलन्ति । अत्र गव्यूतिं यावद् वल्लयो वर्धन्ते किञ्चाऽमुं परितः कलशाकाराश्चत्वारो भुवनपतयो भवन्ति येषामास्यानि दशयोजनप्रमाणानि सहस्रयोजनमितं स्थौल्य, लक्षयोजनदैर्घ्य चाऽस्ति । अस्माद् घनवाततनुवातयोर्निर्गमनेनाऽस्य कल्लोला भृशमुच्छलन्ति यन्निवारणायाऽनिशं सुरगणा दण्डहस्तास्तिष्ठन्ति सर्वमेतच्छाचति ।। ५८ ।।
SR No.022562
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri, Jayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy