SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ चन्द्रराजचरित्रम् - पञ्चमः परिच्छेदः अबलाचातुर्यवर्णनम् चिरं भयस्यावकाशो न बभूव । अथ वीरमती गर्दभीरूपं धृत्वा घोरनादं चकार, यस्य श्रवणेन सर्वे नागरिका घोरनिद्रामापुर्ये यत्रैवाऽऽसन, ते तत्रैव निद्रादेव्युत्सङ्गे पतिता निःसंज्ञका बभूवुः । इयं च निद्रा मूर्छाप्रतिकृतिरेवाऽऽसीदिति ते सर्वे विपत्तावागतायामपि सूर्योदयात्पूर्वमुत्थितुमसमर्था अभूवन। इत्थं नागरिकानवस्वापिन्या निद्रया मूर्छितान् कृत्वा सह गुणावल्या वीरमती बहिर्निरसरत् । राजा चन्द्रस्तु सर्वं चरित्रं पश्यन्नेवाऽऽसीदतस्तयोर्बहिर्निर्गच्छन्त्योरेव स विविक्ते समुपविष्टस्तयोर्वार्ता श्रुतवानासीत्। धश्रूर्वधूमुवाच-मत्कृतनिद्रया नगरवासिनस्तथा कृता यथा तत्र पटहादिघोषणेनाऽपि तेऽपनिद्रा न भविष्यन्ति । इदानीं चल, वयमुपवनमभिगच्छामः । तत्र प्रवेशे सति द्वारदेशे यो रसालवृक्षोऽस्ति, तमारुह्य विमलापुरीं व्रजिष्यामः । || ५४ ।।
SR No.022562
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri, Jayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy