SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ चन्द्रराजचरित्रम् - चतुर्थः परिच्छेदः गुणावलीवीरमत्योर्वार्ता यतः सह जागराणं सह सुअणाणं, सह हरिससोअयंताणं । नयणाणं व धन्नाणं, आजम्मं निच्वलं पिम्म ॥३९॥ एतत्सर्वं पूर्वजन्मकृतसुकृतस्यैव शुभफलमासीत् । सर्वे जनाचन्द्रकुमारे स्नेहाधिक्यात्तं चन्द्रराजेति नाम्नाऽऽहूतवन्त आसन्। स यथैवर्यसुखोपभोगकुशल आसीत्तथैव प्रजापालनेऽपि सावधानेन तत्परोऽभूत् । यतःयस्तेजस्वी यशस्वी शरणगतजनवाणकर्मप्रवीणः, शास्ता शचखलानां क्षतरिपुनियहः पालकः स्वप्रजानाम् । दाता भोक्ता विवेकी नयपथपथिकः सुप्रतिज्ञः कृतज्ञः, प्राज्यं राज्यं स राजा प्रथयति पृथिवीमण्डलेऽखण्डिताज्ञः॥४०॥ ___ अतस्तस्य यशो चतुर्दिक्षु प्रससार | तस्य सभा दर्शनीयाऽऽदर्शरूपा च जनैरमन्यतेति कविस्तस्याः साम्यं षड्भिर्ऋतुभिश्चकार तथाहि-अनिर्वचनीयसौन्दर्यशाली कन्दर्पोपमस्तरुणो राजा चन्द्रः सिंहासने तथाऽशोभत, यथोदयाचलं प्राप्य भानुः शोभते । तदने जलदाकारा, असितवर्णा, मदजलं वर्षन्तः, शुभदन्तैः सौदामिनीशङ्कामुत्पादयन्तो बृंहितैरभ्रध्वनिमनुकुर्वन्तः, क्राम्यन्तः, करिगणा आसन, तेन तत्र वर्षतुर्विराजत इव | तस्य सभासमक्षेऽवप्रवराः स्वस्वगतिधाराः दर्शयन्तः, स्वस्वनासिकाभ्यो झारयगी रसैः 1. सह जागरतोः सह स्वपतोः सह हर्षशोकवतोः । नयनयोरिव धन्यानामाजन्म निश्चलं प्रेम (भवति) ||३६|| ।। ३२ ।।
SR No.022562
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri, Jayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy