SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ चन्द्रराजचरित्रम् - तृतीयः परिच्छेदः चन्द्रावतीवीरसेनयोर्दीक्षाग्रहणम् न जातु कामं कामाना-मुपभोगेन शाम्यति । हविषा कृष्णवर्मेव, भूय एवाभिवर्धते ॥३१॥ परन्त्वेनं जरादूतं विलोक्य मे मनो भोगात्परावर्तते । एतदैश्वर्यं भोगाश्चाऽनित्या नीरसाश्च प्रतिभान्ति । यदुक्तम् - चेतोहरा युवतयः स्वजनोऽनुकूलः, सद्वान्धवाः प्रणयगर्भगिरश्च भृत्याः । वल्गान्ति दन्तिनियहास्तरलास्तुरङ्गाः, संमीलने नयनयोर्नहि किञ्चिदस्ति ॥३२॥ राज्ञो वचनं श्रुत्वा चन्द्रावती औदासीन्यमाप | सा चैतादृशविरागोत्पादकवचनकथनेन पश्चात्तापवती जाता। विषयोत्पादकानेकवार्तालापेन राज्ञो विचारस्य परावर्तने भृशं चेष्टमानायामपि राजा ततो न न्यवर्तत । निरुपाया स्वोक्तौ खेदमावहन्ती चन्द्रावती सकलकार्यसम्पादनातिपटीयसी वीरमतीमानिन्ये, उभाभ्यां निवारितो राजा यदाऽऽत्मनः संकल्पितादचल इव न चचाल | यतःअद्यापि नोज्झति हरः किल कालकूटं, कूर्मो बिभर्ति धरणी खलु पृष्ठभागे । अम्भोनिधिर्वहति दुस्सहवाडयाग्नि, -मङ्गीकृतं सुकृतिनः परिपालयन्ति ॥३३॥ तदा चन्द्रावती राजानमुवाच-प्राणनाथ ! भवन्निश्चितदीक्षाग्रहणे नाऽहं बाधिकाऽस्मि, किन्तु मामपि चारित्र्यग्रहणायाऽऽज्ञापय। || २८ ॥
SR No.022562
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri, Jayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy