________________
चन्द्रराजचरित्रम् - षड्विंशः परिच्छेदः
चन्द्रशीलपरीक्षा
अथ श्रीचन्द्रराजसंस्कृतचरित्रस्य षड्विंशतितमपरिच्छेदे चन्द्रशीलपरीक्षा
यस्मिन् दिने राजा चन्द्रः पोतनपुरमध्युवास, तद्वासर एव सुरेन्द्रेण सुधर्मायामुक्तम्-जम्बूद्वीपस्याऽधिभरत क्षेत्रमाभापुरीनाम्नी नगर्यस्ति । तत्रत्यो राजा चन्द्रो यथा - स्वदारसन्तोषी सदाचारनिरतो महादयालुः परोपकारी, तथा सत्स्वपि बहुदेवमानुषेषु नाऽन्यो दृश्यते । विमात्रा स कुक्कुटीकृतः परं स्वसदाचारप्रभावात्सिद्धाचलतीर्थस्पर्शेन पुनर्मानुष्यमाप, सदाचारात्तं देव्योऽपि चालयितुं न शक्नुवन्ति, अत्र विषये स मेरुवत्स्थेयानस्ति । ईदृशीमैन्द्रीवाचं निशम्य संशयापन्नः कश्चिदमरस्तद्रात्रावेव सुराणामपि मोहजनकमद्भुतं विद्याधरीवेषं विधाय पोतनपुरस्य बाह्योद्याने स्त्रीव करुणस्वरेण रोदितुं प्रवृत्तः । तद्रोदनरवे कर्णागत एव भूपतेश्चन्द्रस्य स्वान्तं दयार्द्रं जातम् । तेन मनसि चिन्तितम् - एतादृशः को दीनजनोऽस्ति य इत्थं निशीथे निर्जने स्थाने रोदिति ? ततः परोपकारपरायणः स सत्वरं स्वासिं नीत्वा यतो विराव आगतस्तदभिमुखमेव चचाल ।
यतः
आपत्समुद्धरणधीरधियः परेषां, जाता महत्यपि कुले न भवन्ति सर्वे । विन्ध्याटवीषु विरलाः खलु पादपास्ते, ये दन्तिदन्तमुसलोल्लिखनं सहन्ते
।। २६१ ।।
॥९१॥