________________
चन्द्रराजचरित्रम् द्वितीयः परिच्छेदः
वीरमत्याः पुत्रकामना
येषां यान्ति दिनानि जन्म सफलं तेषां सुपुण्यात्मनाम् ॥१३॥
ततः सोऽपि बहूनि जिनचैत्यान्यचीकरत् । स्वबन्धूनिव श्रावकान् भृशं सन्तोषयति स्म, मुनीनामपि भक्तिं चकार । यतः सत्सङ्गात् किं न सिध्यति ।
तथोक्तम् -
-
जाड्यं धियो हरति सिञ्चति वाचि सत्यं, मानोन्नतिं दिशति पापमपाकरोति । चेतः प्रसादयति दिक्षु तनोति कीर्ति, सत्सङ्गतिः कथय किं न करोति पुंसाम् ।
૪૫
इति लोकोक्तिरपि यथार्थतामाप । यदा शनैः शनैश्चन्द्रकुमारोऽष्टवार्षिको जातस्तत एव सुयोग्यस्य कस्यचिद् गुरोः समीपे विद्याभ्यासं कर्तुं लग्नः । स्वल्पकालेनैव स बृहस्पतिरिव सुबुद्धिबलेन सकलविद्याकलादीनां पारं जगाम ।
यतः
श्रियं प्रसूते विपदं रुणद्धि, श्रेयांसि सूते मलिनं प्रमार्ष्टि । संस्कारयोगाच्च परं पुनीते, शुद्धा हि बुद्धिः किल कामधेनुः ॥१५॥
अतः प्रकर्षमाधारवशं गुणानामिति सत्यमस्ति, तत्र गुरुः केवलं साक्षिमात्रो भवति । कियद्दिनानन्तरं ऋतुराजवसन्तस्यागमनं बभूव । सर्वाण्युपवनानि फलपुष्पसमृद्धिवन्ति सुशोभितानि चासन् । कामोद्दीपकसाधनेषु वृद्धिर्बभूव, आम्रमञ्जरीर्भुक्त्वा कोकिला अपि मधुरं चुकूजुः । वातप्रेरिताः सपुष्पा लता विलासिनो रत्यर्थं प्रेरयन्तीति मन्ये, अस्मिन्नेव समय आभानरेशः सह पत्नीभ्यां
।। १४ ।।