SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ चन्द्रराजचरित्रम् - त्रयोविंशः परिच्छेदः गुणावल्या समं पत्रव्यवहारः गुणावल्या रहसि संगते त्वं मन्मुखेन कुशलप्रवृतिं पृच्छे:, तां च कथयेः कथङ्कारमपि चिन्तां न कुर्यात् । पुनस्तस्या एतदपि निवेदनीयम - यन्महाराजेनोक्तमस्ति द्रागेवैत्याहं त्वच्चिरकालिकवियोगदुःखं हरिष्यामि । वयं पुनः पूर्ववदाभापुर्यां राज्यं करिष्यामो दुर्जनाश्च करौ मर्दन्तः स्थास्यन्ति । अत्र सिद्धाचलतीर्थस्थसूर्यकुण्डमहिम्ना मे मनुष्यत्वप्राप्तिर्जाता, परमहमत्र सुखेन तिष्ठन्नपि त्वद्विरहात्स्वजीवनमसारं मन्ये । I यतः चन्द्रश्चण्डकरायते मृदुगतिर्वातोऽपि वज्जायते, माल्यं सूचिकुलायते मलयजालेपः स्फुलिङ्गायते । रात्रिः कल्पशतायते विधिवशात्प्राणोऽपि भारायते, हा हन्त ! प्रमदावियोगसमयः संहारकालायते ॥६१॥ अतःपरं त्वां त्वद्धिताय सूचयामि वश्रूवचनमङ्गीकृत्य त्वं मां न विस्मरेः । देशान्तरीयमहासुखसम्पत्त्यपेक्षया स्वदेशी - याल्पसुख-सम्पदपि निजेष्टतमाङ्गिनां भवतीति मम तत्रागमने काचिदापत्तिर्नैव तथाऽत्रापि मे देवगुरुकृपया किञ्चित्कष्टं न वर्तते, तथापि तत्रागत्य तवामृतमयवचनश्रवणादिमिलनसुखस्य तीव्रेच्छया बाध्यमानोऽस्मि । किं बहुना त्वदीयमुखपङ्कजं यदि विधोरलं वार्तया, तयाधरसुधा यदा भवति किं सुधा नो मुधा ? | त्यदङ्गपरिरम्भणं यदि कृतं सुधागाहनै || २३६ ।।
SR No.022562
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri, Jayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy