SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ चन्द्रराजचरित्रम् - द्वाविंशः परिच्छेदः महानन्दोत्सववर्णनम् च्छायामनादृत्य सकण्टकवृक्षाश्रयं को नामाऽनुमोदते ? भवदाराधनजलधरेण भवदावानलतापः शाम्यते । यतःअरिहंतनमुक्कारो, जीवं मोएइ भवसहस्साओ। भावेण कीरमाणो, होइ पुणो बोहिलाभाए ॥४६॥ भवान् गुणमणिरोहणाचलोऽस्ति, परिषहोपसर्गादिसहने सर्वसहायते, कर्मकेसरिनिराकरणे साक्षादऽष्टापदोऽस्ति । हे अनन्तशक्तिशालिन् ! हे भगवन् ! मदीया केवलमियमेवाऽभ्यर्थनामम जन्मान्तरेऽपि स्वीया सेवाभक्तिर्दातव्या । एवं परमात्मनः स्तुत्यनन्तरं राजा चन्द्रो मनसि दध्यौ- अहो ! क्वाऽहं क्व चाऽयं गिरिराजः ? मम पूर्वपुण्योदयादेवाऽस्य सद्यात्राया लाभो जातोऽस्ति । यतःतैश्चन्द्रे लिखितं स्वनाम विशदं धात्री पवित्रीकृता, ते वन्द्याः कृतिनः सतां सुकृतिनो वंशस्य ते भूषणम् । ते जीवन्ति जयन्ति भूरिविभवास्ते श्रेयसां मन्दिरं, सङ्गैिरपि कुर्वते विधिपरा ये तीर्थयात्रामिमाम् इत्थं विचिन्तयन्तौ दम्पती जिनमन्दिराद् बहिरागतौ । तत्र चारणश्रमणमुनि प्रेक्ष्योभौ तमभिवन्द्य तदासन्ने धर्मोपदेशश्रवणं कर्तुं लगौ । अथ गिरिराजं प्रदक्षिणीकृत्य स्वमनुष्यत्वं सार्थकं मेनाते । इतो विमलापुर्यामेका दासी धावमाना राज्ञो मकरध्वजस्य समीपमागत्य तस्मै प्रमोदप्रवृत्तिं श्रावयन्त्युवाच- हे महाराज ! ।। २२३ ।।
SR No.022562
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri, Jayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy