SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ चन्द्रराजचरित्रम् - अष्टादशः परिच्छेदः लीलाधरलीलावत्योर्वृत्तान्तः अथ श्रीचन्द्रराजसंस्कृतचरित्रस्या ऽष्टादशपरिच्छेदे लीलाधरलीलावत्योर्वृत्तान्तः - शिवमाला चन्द्रराजस्य पिञ्जरं लब्ध्वा देशविदेशेषु भ्रमणं विदधती विपुलधनोपार्जनं कर्तुं लग्ना | तस्यास्ताम्रचूडप्राप्त्यैकः पन्था द्वे कार्ये, इति लोकोक्तिश्चरितार्था जाता | शिवमाला तेन प्रत्यहं सुखभक्षिकां मिष्टान्नं च खादयन्ती स्वप्राणवत्तं त्रायमाणाऽऽसीत् । अन्यदेयं नटमण्डली भ्राम्यन्ती वङ्गदेशीये पृथ्वीभूषणाभिधे नगरे गता | तत्राऽरिमर्दनाख्यो भूपो राज्यं करोति स्म, तस्य चन्द्रराजपित्रा साकं परा प्रीतिर्वर्तते स्म । नटैस्तत्र नगरे शोभनं स्थानं निरूप्य तत्र स्वावासः स्थापितः । एकस्मिन् वस्त्रगृहे सिंहासनं सज्जयित्वा तदुपरि कुक्कुटराजस्य पिञ्जरं स्थापितम्। नटानामेतादृशेन समारोहेण स्थापितमावासं विलोक्य कस्यचिद्राज्ञो निकाय्यो यथा भवेत्तथा दर्शकैरज्ञायि । राज्ञोऽरिमर्दनस्य नटाऽऽगमनवृत्ते विदित एव तेन खेलादर्शनाय नटा आकारिताः । तदा सपिञ्जराः शिवकुमारादयोऽपि राजपरिषद्युपस्थिताः, कुक्कुटं प्रणम्य तदाज्ञामादाय दिव्यं नाटकं दर्शयामासुः । नाटकं दृष्ट्वा तुष्टेन राज्ञा तेभ्यः प्रचुरं दानं दत्तम् । तैः साकममुं कुक्कुटं निर्वयं तदद्भुतसौन्दर्यावलोकनतो विस्मेरमानसेन राज्ञा पृष्टेन शिवकुमारेण तस्य तथ्यवृत्तान्तः संक्षेपेण कथितः । तदाकर्ण्य ।। १७३ ।।
SR No.022562
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri, Jayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy