SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ चन्द्रराजचरित्रम् - चतुर्दशः परिच्छेदः श्रवणस्य वा कोऽप्यधिकारो नाऽस्ति । यतः राजमातरि देव्यां च कुमारे मुख्यमन्त्रिणि । पुरोहिते प्रतीहारे, वर्त्तितव्यं राज्यत् सदा ૫૪૫ प्रजास्वपि तेन सन्तोषो भविष्यति, अराजकं राज्यं च न कथयिष्यते यदि ममाऽऽदेशमवमत्याऽत्र कार्ये बाधा करिष्यते, तदा तवाऽपि तस्य दुष्टं फलं भोक्तव्यं भविष्यति, पुनर्मे दोषो न देयः । अतो ममेमां सूचनां हृदि निधाय सदैव सुरीत्या वर्तितव्यम् । वीरमत्यास्तुच्छप्रकृत्या सुपरिचितेन मन्त्रिणा विचारितं यदनया सह मिलित्वा चलनेनैव शमस्ति । किन्तु विरोधकरणे सतीयमित्थमेव मिथ्यादोषारोपणं कृत्वा मम प्राणान्तकारिणी भविष्यतीति संभाव्यते । एवं ध्यात्वा तेन तस्याः सर्वमपि वचनमड़ीचक्रे । तदा स्वपक्षे समागतं मन्त्रिणं ज्ञात्वा प्रमोदितया तयोचेमन्त्रिन् ! साम्प्रतं नगरे डिण्डिमं वादयतु, यदद्यप्रभृति राज्ञश्चन्द्रस्य राजपट्टो वीरमत्या गृहीतोऽतः सर्वैस्तस्या एवाऽऽज्ञा मन्तव्या, अन्यथाकारी नगरान्निःसार्यो वा तस्य वधो भविष्यति । यतः आज्ञाभङ्गो नरेन्द्राणां गुरूणां मानमर्दनम् । पृथक् शय्या च नारीणा - मशस्त्रो वध उच्यते वीरमत्याः प्रपञ्चः ॥४४॥ यस्मायाभापुरी न रोचते, यमसदनं च रोचते, स एव तदाऽऽज्ञोल्लङ्घनसाहसं कुर्यात् ? मन्त्रिणा झटिति तथैव कृतं नागरिकास्तु तां घोषणां श्रुत्वैवाऽऽञ्श्चर्ये पतिता वक्तुं लग्ना: ।। १४३ ।।
SR No.022562
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri, Jayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy