SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ चन्द्रराजचरित्रम् - एकादशः परिच्छेदः वीरमत्या नीचताः दन्तैरुच्चलितं धिया तरलितं पाण्यघ्रिणा कम्पितं, दृग्भ्यां कुड्मलितं बलेन गलितं रूपश्रिया प्रोषितम् । प्राप्तायां यमभूपतेरिह महाधाट्यां धरायामियमाशा केवलमेकिकैय सुभटी हृत्पत्तने नृत्यति ॥१०॥ एवमाशाश्रिताया अपि तस्याः पतिमन्तरा सर्वं जगत् शून्य प्रतिभाति स्म । तथा नीतिशास्त्रेऽपि कथितमस्तियतःचन्द्रं विना भाति यथा न रात्रि-वेदैविहीना किल विप्रजातिः। सुदतहीनो न च कुञ्जरोऽपि, पत्युर्विहीना कुलजाऽपि लोक॥११॥ अपि चशस्त्रैर्विना स्याद्धि यथेह वीरः, सामन्तशून्यः पृथिवीपतिश्च । विद्युद्विहीनाऽभ्रघटा तथैव, पत्युर्विना शून्यतमा च नारी॥१२॥ अतस्तस्यै भूषणभोजनादिकमपि न व्यरोचत, पुनरपि कदाचिद्वीरमती गुणावलीं कुत्राऽपि गमनाय कथितवती, तदा तस्याः प्रसादाय तया सह गतासीत् । समये समये वीरमती तामाम्रवृक्ष आरोह्य दूरदेशान्तरं गत्वाऽपूर्वं कौतुकं दर्शितवती । अनिच्छयाऽपि वीरमतीभयात्तन्मनोऽनुरञ्जयन्ती सातिप्रेमवशेन पत्युः सकटच्छिदं धर्मव्रतादिकमपि विधातुं लग्ना । || ११६ ।।
SR No.022562
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri, Jayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy