SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ चन्द्रराजचरित्रम् - सप्तमः परिच्छेदः अघटितविचित्रघटना पत्न्याश्च पृष्ठतो गुप्तवेषेण प्रवेशं करिष्यति । तत्क्षणे तमाहूय यूयं प्रार्थयेयुस्तदा प्रेमलयोपयन्तुं भवत्प्रार्थनामुरी-करिष्यतीत्थं तव चिन्ता दूरमेष्यति । एवमाभाष्य देव्यन्तर्दधे, तेन तुष्टो ममाधीशः परिणयकार्यभाग भवितुं लगः ; शनैः शनैः परिणयप्रस्थानवेला समुपस्थिता, तद्दिनेऽधिगजं कौशेयप्रावृतशिबिकायां कुमारमुपवेश्याऽस्माभिर्विमलापुरीप्रस्थानं चक्रे । परमस्माकमिदं, कपटजालं केऽपि न विविदुः । इत्थमाडम्बरेण वयं विमलापुरीमागताः, अत्र राज्ञा मकरध्वजेनाऽस्माकमावासादिचारुप्रबन्धः पूर्वत एव कारितोऽतो बहुदिनात्तस्याऽऽतिथ्यं सुखेन गृह्णन्तः स्मः । राजन्! एवमेतावत्कालपर्यन्तमस्माकं काठिन्यसमक्षं कर्तव्यं नाऽभूत्परमद्यैव विवाहदिनमतोऽस्माकं लज्जारक्षणमपि भवत्करस्थमस्ति, तस्मादुत्सुका वयं भवत्प्रतीक्षां कुर्वन्त आस्म। भवानन्यत्र न गच्छेत्तदर्थं मया सन्ध्यात एव प्रतिगोपुरं स्वसेवका नियुक्ता देव्युक्त्यनुसारेण प्रतिबोधितास्ते भवन्तं विज्ञायाऽऽनिन्युः । सम्प्रति ममाऽनुनयं स्वीकृत्य कनकध्वजकुमारार्थ प्रेमलालच्छी परिणयतु, भवताऽस्वीकृते वयमनशनेन प्राणांस्त्यक्ष्यामोऽतोऽस्माकं जीवनमरणे भवत्पञ्चशाखस्थे स्तः । यदि भवानुक्तं कार्यं न करिष्यति तदाऽप्रतिष्ठाग्लापितान्नः शत्रवो हसिष्यन्ति, ततोऽधिककथनस्याऽवसरो नाऽस्ति । अस्मिन्नवसरे भवान् यदि विवदिष्यते तदा राजभवनस्यासन्नत्वान्मन्त्रभेदो भविष्यति । भवता यत्कारयितुमिच्छामि, तत्कथमप्यकर्तव्यं नाऽस्ति । यतोऽनेकशोऽन्यार्थमन्यैः परिणयः कृतोऽस्ति । एतत्कार्य नृपकुलदेव्याऽऽदेशानुसारेण भवति, अतोऽत्र कार्ये दोषलेशोऽपि नास्ति, कृपया समयमनंष्ट्वा ममाऽ || ८८ ।।
SR No.022562
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri, Jayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy