________________
७०
मल्लिनाथमहाकाव्येततः सा मूर्च्छयाऽभ्रश्यत् पृथिव्यां छिन्नक्षवत्३१०॥ मृतेव गतनिःश्वासा मौनिनी योगिनीव सा । अलब्धसंज्ञा सुचिरं स्थिता ही विधिजृम्भितम्।।३११॥ मृतकल्पामिमां चञ्च्चा ततो भारण्डपक्षिराट् । जगृहे नीरधेरन्तीपे चन्द्रकलाह्वये ॥ ३१२ ॥ अम्भोधिवीचिभिर्लब्धसंज्ञाऽभूद् वनमालिका । संशुष्यद्वल्लरीवोच्चैः प्रथाम्भोददृष्टिभिः ॥ ३१३ ॥ किश्चिञ्चलत्तनूं दृष्ट्वा तां मुक्त्वा च नभस्तले । दयाधर्मपरायत्तश्चलति स्म स पक्षिराद् ॥ ३१४ ॥ वस्था सा हृदये दध्यौ तद् वृत्तं स्वप्नदृष्टिवत् । क चाश्रमो महर्षीणां क च राज्यपरिक्रिया॥३१५॥ क चाऽयमन्तरद्वीपे निवासो जनवर्जिते । क्व च मूर्छागमोऽरण्ये क्व चाऽयं वीचिसङ्गमः१३१६॥ अथवा दुःखसंदोहो ममाऽन्योऽपि प्रसर्पताम् । पश्चादपि हि यद् देयं तत्पूर्व किं न दीयते ? ॥३१७॥ इति मीमांसमानायां तस्यां कश्चन पूरुषः । समभ्येत्याऽभ्यधादेवं प्रेममन्थरया गिरा ॥ ३१८ ॥ कासि विस्मेरपद्माक्षि ! कस्मादिह समागता ? । इत्युक्ते तेन सा कामं मौनमुद्रामशिश्रियत् ॥ ३१९ ॥ सोऽथाऽभाषिष्ट वृत्तं मे शृणु शोभनदर्शने !। कासारनगरावासी भग्नपोतो महोदधौ ॥ ३२० ॥ दैवात् फलकमासाद्याऽन्तरीपं प्राप्य सुन्दरि ! । एकाकिनोऽद्वितीया मे द्वितीया त्वं भविष्यसि ॥३२१॥ श्रुत्वाथ दध्यावित्येषा हा ! दूरक्षमिदं व्रतम् । यत्र वा तत्र वा यातु कर्पासो लोठ्यते जनैः ॥३२२॥ उवाच वनमालेदं मा बान्धव ! वदेदृशम् । १ तस्थुषः इत्यपि पाठः।