SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः। सुष्वाप सहकारस्य च्छायायां पद्मशेखरः॥ ८४ ॥ इसश्चागत्य तत्पादाङ्गुष्ठं चश्चनखप्रभम् । अचालयत् कराग्रेण नरः कश्चिद् महामनाः॥ ८५॥ अथ निद्रां परित्यज्योपाविक्षत पद्मशेखरः। . कस्त्वं भवान् कथं निद्राविद्रावणपरोऽसि मे ॥८६॥ सोऽप्युवाच महाभाग ! पुरं शोभापुराभिधम् । अत्रास्ति भूपतिः सोमः सोमान्वयविभूषणम् ।।८७॥ तस्याहं सचिवाधीशः सुबुद्धिर्नाम सन्मते ! । मम राज्यभरं राजा न्यस्तवान् धुर्यवञ्चिरम् ॥८॥ भद्र ! सोमनृपो देवादाक्रान्तोऽस्ति रुजा भृशम् । यत्र मन्त्र इवाऽकर्णे निष्फला औषधक्रियाः॥८९॥ दुश्चिकित्स्यनृपव्याधिवीक्षणाञ्चिन्तयाऽऽकुलः । अहं निर्गमयामास दिनं संवत्सरोपमम् ॥ ९०॥ निशायामद्य निद्राणे माय काचन देवता। एवमादेशयामास मा मा चिन्तातुरो भव ॥ ९१ ॥ यः प्रातः सहकारस्य च्छायायां मार्गखेदतः । शयितं वीक्षसे राज्ये तं भद्र ! विनिवेशयः ॥ ९२ ॥ पद्मशेखर इत्यस्य नाम स्थाममनोहरम् । यस्माद् राज्यश्रियो वृद्धिः संभविष्यति निश्चितम्॥१३॥ सत्याकर्तुमहं मन्ये भवदागमनोत्सवः । समायातोऽसि नो भाग्यैः पाहि राज्यमखण्डितम्॥१४॥ ततः पयो निजं दृष्ट्वा वपुर्नैसर्गिकाकृति । अचिन्तयदहो ! कीहक् पुण्योदयविजृम्भितम् ॥१५॥ अथ राज्येऽसको न्यस्तो भूपोऽभूत् पद्मशेखरः। पुण्यानि सहचारीणि विदेशेऽपि महात्मनाम् ॥१६॥ इतश्च तत्रैव पुरे परकर्मोपजीवकः ।....... महोदराख्यया. ख्यातः समभूत् कुलपुत्रकः ॥९७॥
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy