SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः । महाबलनरेन्द्रेण सिंहस्वमेन सूचितः । कमलश्रीमहादेव्यामुदपादि शरीरजः ॥ ७॥ भविष्यद्बलभद्रत्वादिति ध्यात्वेव भूभुजा । बलभद्राभिधानेनाऽऽहूतः प्रेमकिरा गिरा ॥ ८॥ अन्यदा बहिरुद्याने चञ्चच्चम्पकचारुणि । वरधर्माभिधः मूरिभगवान् समवासरत् ॥ ९ ॥ तदाऽऽगमनमङ्गल्यमाकाऽऽरामपालकात् । यथेच्छं पीतपीयूषगण्डूष इव सोऽहषत् ॥ १० ॥ तं नमस्कर्तुमुर्वीशश्वचालाऽचलमानसः । पिदधानो वरच्छत्रैर्दिवं हंसगणैरिव ॥ ११ ॥ दन्ताबलैर्बलोदामैरभ्रमूवल्लभायितैः।। तुरङ्गश्चापि मार्तण्डरथादपहतैरिव ॥ १२ ॥ . रथैः श्रोत्रपथाध्वन्यचारुचीत्कारबन्धुरैः । अनन्तैर्भक्तसामन्तैः समन्तात् परिवारितः ॥ १३ ॥ भूचरखर्वधूभ्रान्तिप्रदवारपुरन्ध्रिभिः । चामरै रत्नखचितैर्वीज्यमानः पदे पदे ॥ १४ ॥ बन्दिभोगावलीपाठस्पर्धाप्रसृमरैरिव । नादैर्मङ्गलतूर्याणां पिदधन् रोदसीतलम् ॥ १५ ॥ धर्मातन्त्रैर्वृतो मित्रः षड्भिर्लक्ष्मीविकस्वरैः। पदातिभिश्च पारीन्द्रप्रौढविक्रमविश्रुतैः॥ १६ ॥ गजेन्द्रस्कन्धमारूढः प्रौढप्रसृतभावनः । तदुद्यानमथ प्राप नन्दनं वासवो यथा ॥ १७ ॥ (सप्तभिः कुलकम् ) दूरादेवाऽवनीनाथः करिस्कन्धाद् मदादिव ।। उत्तीर्य राजचिह्नानि पञ्चाऽमुश्चत् समाहितः ॥ १८ ॥ १ नवच्छत्रैरिति पाठान्तरम् ।
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy