SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ शब्दरत्नाकरे महो महश्च सान्तं षण् , मेलके सङ्ग-सङ्गमौ ॥८४॥ सांगमोऽथो अनौडत्ये प्रश्रयः प्रशरोऽपि च । आरम्भे क्रमः प्रोपाभ्यामुपोटात उद्घातवत् ॥८५॥ उत्क्रमे व्युत्क्रमः प्रोक्तोऽक्रमोऽथ विप्रलम्भने । विप्रलम्भः, विप्रयोमो वियोगो विरहे स्मृतः ॥८६॥ सामान्ये तु जातिर्जातम् , स्पर्धायां तु समेः परौ। हर्ष-घर्षों च संक्राम-संक्रमौ दुर्गसञ्चरे ॥८७॥ जलतरणेऽपि, परिणामे विकृति-विक्रिये । विकारः, घूर्णने घूर्णिम॒न्तिभ्रमि-भ्रमावपि ॥८॥ लवने लवा-भिलावौ, निष्पावे पवनं पवः । थूत्कृते ठीवनं ष्ठ्यूत-निष्ठेव-ष्ठेवनानि च ॥८९॥ स्याद् निवृत्तावुपरमो व्युपाव्याङ्झ्यो रतिः परा । विधूनने विधुवनम् , ग्रहणे ग्राहवद् ग्रहः ॥९॥ वेधे व्यधः, क्षये क्षिया, स्फरण-स्फुरणे समे । देवतायें वर-वृती अथाऽव्ययगणस्मृतिः ॥९१॥ स्वः स्वर्गे सुखमार्तण्डपरलोकेष्वपि, शनैः । शनैश्चरेऽप्यथोचे तु उपरिष्ठादुपर्यपि ॥१२॥ अँधरदेशेऽधोऽधस्ताद्, वर्जने त्वन्तरेणवत् । अन्तराऽन्तर्दा मध्येऽपि हिरुक् कान्तं पृथक् पुनः॥१३॥ कान्तं जान्तं च मौने तु तूष्णीकं तूष्णीमित्यपि । १ प्रक्रमः, उपक्रम इति । २ सहर्षः, संघर्ष इति । ३ विरतिः, उपरतिः, आरतिः, व्यारतिरिति । ४ अधस्तनभागे । ५ ककारान्तम् । ६ जकारान्तम् ।
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy