SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ . प्रथमः सर्गः । मुनिरूचे ततः कोपभृकुटीभङ्गभीषणः ।... चिकीर्षुरनृणं स्वं मद्वित्तेनापि विवक्यास? ॥३॥ व्रजामो वयमेन्यत्र दृष्टं सत्त्वं तवांधुना। वावदकाश्च वीक्ष्यन्ते निःशूकाश्च गृहे गृहे ॥ ४ ॥ अयोवाच महीभर्ता विलम्बध्वं गुणानघाः!। यावदप्यन्यतः स्वर्णमानयामि कलान्तरैः ॥ ५ ॥ वणिजो भूभुजामीशः समाकार्य समादिशेत् । ददत स्वर्णलक्षं मे दास्येऽहं वृद्धिसंयुतम् ।।६।। मुनिना दिव्यशक्त्या ते हरिश्चन्द्रे खिलीकृताः। तत्यजुस्ते तदादेशं नतमस्तककैतवात् ॥ ७ ॥ विलोक्य मापतिर्दध्यौ किं करोमि प्रयामि कम् ।। आनयेऽहं कथं स्वर्ण महेंदेशे यथा जलम् ? ॥ ८ ॥ ततः कुलपतिः कोपकम्पमानाधरोऽवदत् ।। पाप्मन् ! कियन्तमद्यापि विलम्बं मे विधास्यसि ।।९।। वमुभूतिस्ततः प्राह महर्षे ! हर्षवर्षक!। हरिश्चन्द्रसमः कापि दृष्टः किं सात्त्विकाग्रणीः१ ॥१ अथाङ्गारमुखोऽवादीत्सोपहासममुं प्रति । , दृष्टस्त्वत्तो न वाचालो हरिश्चन्द्राच वञ्चकः ॥ ११ ॥ अरे रे! कर्मचाण्डाल! किमभिर्भाषितैस्तव' । रुष्टो हि रूपकात् पादवन्दनैः किमु तुष्यति ।।१२।। अदत्तेऽस्मिन् दुराचार ! किनु वाञ्छसि जीवितम् ? । सव श्लोकस्य लोकस्य क्षय एष उपागतः ।। १३ ।। अथावादीन्नॅपः साधो ! कुतस्त्वत्तः कुलक्षयः ? । नहि पीयूषपोनेन मृत्युः कस्यापि जायते ॥ १४ ॥ जघान पाणिना भूपं मुनी राजा ननार्म तम् । कोपिनां क्षमिणामाचं संजातौ सौ निदर्शनम् ॥ १५॥
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy