SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ चतुर्थः काण्डः। शुमखो भषणो भषकोऽपीन्द्रमहकान्वितः ॥३१६॥ . इन्द्रमहकामुकश्च श्वाने, द्वौ मृगयापटौ । विश्वकद्रुर्विश्वकद्रूः, शुनकी शुनका शुनी ॥३१७॥ श्वानकर्णे शुनस्कर्णः श्वकर्णोऽपि निगद्यते । सैरिभे मह-महिषौ लुलायश्च लुलायुयुक् ॥ ३१८ ॥ - सिंहे पारिन्द्र-पारीन्द्रौ कण्ठीरव-कण्ठेरवौ । केशरी दन्त्यतालव्यः, व्याघ्र द्वीपीव द्वीपिनः ॥३१९॥ चित्रकश्चित्रकायोऽपि, शरभेऽष्टापदोऽष्टपात् । गण्डके खडी खडीरः खड़ो वाध्रीणसोऽपि च ॥३२०॥ दन्त्यतालव्यान्तः, कोले शूकरः सूकरः किरिः। किरः, ऋक्षे तुभल्लूको भाल्लूको भल्लुकस्तथा ॥३२१॥ भाल्लुकोऽपि च भालूकश्छोभल्लोऽप्यच्छभल्लवत् । . गोमायौ फेरु-फेरण्डौ फेरवो भूरिमायवत् ॥३२२॥ , भूरिमायुर्जम्बुकश्च जम्बूकोऽपि शृगालवत् । सृगालोऽपि शिवाऽऽबन्तःखिङ्खिरःखिङ्खीरा स्त्रियाम्३२३ भूम्न्युभौ तु शिवाभेदे खट्राले वारि-वालुके। . भिक्षुभङ्गेऽपि, कीशे तु प्लवंगः सप्लवङ्गमः ॥३२४॥ : प्लवङ्गः प्रवगोपेतः प्रवङ्गोऽथ मृगे भवेत् । मर्कटः कर्मटस्तद्वत् कुरङ्गश्च कुरङ्गमः ॥३०५॥ वातायुश्च सवातायुर्दन्त्यतालव्यपूर्वगः। .. शारङ्गः शबलवर्णे चातकेऽपि ससार्गकः ॥३२६॥ मृगभेदे कृष्णसारकालसारौ सदन्त्यकौ ।
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy