________________
शब्दरत्नाकरे
नवमालिका सप्तला सातला कैवत्तीपरे । मुस्तके वानेयं वन्यं प्लवं च परिपेलवम् ॥ २४० ॥ दशपूरं दशपुरं, कटंभरौषधौ मता ।
७२
भद्रबला राजबला महाबला प्रसारणी || २४१ ॥ सरणी सरणा वापि सारणी कटली पुनः । ज्योतिष्का ज्योतिष्मती च तर्कार्या वैजयन्तिका ॥२४२॥ जया जयन्ती पानीयकण्टके तु श्रृंगाटकम् | सङ्घाटिका त्रिकोणश्च त्रिकोने प्रोपमे पुनः ॥ २४३ ॥ बाताममपि बादामं पद्मेब्जोऽदन्त-सन्तषण् । जलात् पङ्कात् सरसोऽपि परे जन्म-ज- रुट् - रुहाः ॥२४४॥ सरसीरुहं सरसिरुहं विसप्रसूतवत् । विसप्रसूनमपि स्यात्कैरविण्यां कुमुद्वती || २४५|| कुमुदिन्यथोत्पले तु कुवेलं कुवलं कुवम् । कुवलयं कैरवे तु कुमुदं कुमुदुत्पले || २४६ ॥ नीले त्विन्दीवरं चन्दीवारमिन्दीकरं तथा । सौगन्धिके तु कल्हारं हकाराकान्तलान्वितम् ॥२४७॥ पद्मनाले तु मृणालं मृणाली च विशं विसम् । विसण्डकं च पद्मादिवृन्ते नाली तु नालया ॥ २४८ ॥ नालं किञ्जल्के तालव्य- दन्त्यमध्यं तु केसरम् | नवपत्रे संवर्तिका संवर्तिर्जलनीलिका ॥ २४९॥ शेवालं शैवलं शैवालं शेपालं च शीवलम् । शेवलं पाटलशाला वाशुराशु च त्रीहिवत् ॥ २५० ॥