SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ ६६ शब्दरत्नाकरेमाधवीलता माधव्यथोड्रपुष्पे जपा जवा। मालत्यां तु जातिर्जाती सुमनाऽऽबन्त-सन्तगा ॥१७५॥ विचकिले मल्लिका च मल्लिः स्याच्छतभीरुका । शीतभीवनजेऽस्मिन्नास्फोता स्फोटया समम् ॥ १७६ ॥ शिवमल्ल्यां बक-बुको वसूको वसुको वसुः । वृक्षरुहायां तु चन्दा वन्दाका च जयन्त्यपि ॥ १७७ ॥ जीवन्ती सुषिणे करमर्दः स्यात् करमन्दवत् । कृष्णपाकफलः कृष्णपाकः कृष्णफलात् परः ॥१७८॥ पाकः पाककृष्णफलः पाकाढिफलकृष्णवत् । प्रियङ्गो फलिनीयुक्ता फला जम्बीरपादपे ॥ १७९ ॥ जाम्बीरोऽपि च जम्भीरो जम्भीलो जम्भ-जम्भलौ । बीजपूरे पूरकः स्यात् सुपूरकश्च केसरी ॥ १८० ॥ केसराम्लोऽम्लकेसरो मातुलिङ्गश्च लिङ्गवत् । मातुलुङ्गोऽपि, ग्रन्थिले करीर-क्रकरौ समौ ॥ १८१ ॥ करर एरण्डे मण्ड आरण्डः स्यादमण्डवत् । · उरुबूकश्वोरुबुको व्यडम्बक-व्यडम्बनौ ॥ १८२ ॥ कपिकच्छां तु कण्डूरा कण्डुराण्डाध्यवेः परा । शूकशिम्बा शूकशिम्बी विजयायां तु मातुली ॥१८३॥ मातुलानी भृङ्गी भङ्गा धूर्ते धुस्तूर-धूस्तुरौ । धूस्तूर-धुस्तुरौ धुस्तुर्धरो धुत्तुरो स्वौ ॥ १८४ ॥ अर्कोऽर्कपर्णो 'वसुको वसुरा स्फोटयान्विंता । आस्फोताऽथ दधिफले कपिच्छः स्यात्कपिच्छवत॥१८५।
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy