SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ चतुर्थः काण्डः । वातूलो वातुलो वातसमूहे ऽथासहेऽपि च । वातविकारस्याऽरण्ये षण्डं शण्डं वनं वनी ॥ १२० ॥ सत्रं तालव्य - दन्त्यादि दवो दावोऽटव्यटविः । चुरुम्बः सतुरुम्बचारामेऽपोपात्परं वनम् ॥ १२१ ॥ राज्ञामन्तः पुरोद्याने प्रमदा-प्रमदाद् वनम् । वृक्षेमो विद्रुमोदुः कुठिः कुण्ठोऽहिपोऽङ्घ्रिपः ॥१२२॥ शालस्तालव्य-दन्त्यादिः शिखी शाख्यगमोऽगवत् । पारिन्दश्चापि पालिन्दो गाथकेऽपि दलान्विते ॥ १२३ ॥ पर्णलः पर्णिलो वृक्षे स्थाने वृक्षैर्वृतान्तरे । निकुञ्ज - कुञ्ज जरुट - जरुडौ च, वनस्पतौ ॥ १२४ ॥ फलाप्तवृक्षे फलवान् फलिनश्च फली तथा । फलपाकावसानायामौषध्यौषधिरोषधी ॥ १२५ ॥ क्षुपो खशिफाशाखे क्षुपको व्रततिर्लता । प्रततिव्रतती तद्वद् वल्लि - वल्ल्यौ च वेल्लिवत् ॥ १२६॥ प्ररोहे रोहेऽप्यङ्कराङ्कुरौ शाखा शिखा लता । स्कन्धशाखा शाला साला जटा जटिः शिफा शिफः॥ १२७॥ मूले वृक्षस्य बुभः स्याद् व्रनोऽहिरङ्घ्रिसंयुतः । मज्जा नान्तो ना मज्जाबन्ता सारेऽथ वल्लिका ॥ १२८ ॥ त्वचस्त्वचा त्वक् च चोचं शल्कं वल्कं च वल्कलम् । शकलं वल्के शल्के वर्धेऽपि शल्कं शकलेऽपि ॥ १२९ ॥ कोटरे निक्कुटः प्रोक्तो निष्कहो, वल्लुरौ पुनः । वल्लरी मञ्जरी मञ्जा मञ्जरिश्रापि, पर्णके ॥ १३० ॥ " ६१
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy