________________
तृतीयः काण्डः।
नान्तादन्ते तु इध्मेध्मे रक्षाभस्मनि क्षारवत् ॥३०२॥ स्रुवे स्रुग, मखवधे तु शसनं शमनं समे। शृतोष्णक्षीरगे दनि आमीक्षाऽमिक्षया सह ॥३०॥ दधिषाज्य-दीधीषाज्यौ दधियुक्तघृते मतौ। मृषावादिन्यपि चाग्निहोत्रिण्यग्न्याहितो भवेत् ॥ ३०४॥ आहिताग्निर्दविर्दी घृतलेखनिकोच्यते । आचमने तूपस्पर्श उपसंस्पर्शनं तथा ॥ ३०५ ॥ उपसंस्पर्शः, पाठे तु निपाठ-निपठौ समौ । स्वाध्याये जपो जाप उपवास उपोषितम् ॥३०६॥ अपवस्त्रमुपवस्त्रमौपवस्त्रोपवस्त्रके। ... वृत्ते चरित्रं चारित्रमाचार-चरणे अपि ॥३०॥ चरितं, प्राचेतसे तु वाल्मीकिर्वल्मीकयुक् । वाल्मीक-वाल्मिकौ तद्वत् कविरादिकविस्तथा ॥३०८॥ मैत्रावरूणिः समैत्रावरूणो, बादरायणे । वेदव्यासश्व व्यासः, स्याद् रामः परशुरामवत् ॥३०९॥ जामदग्न्यो, याज्ञवल्क्यो योगेशः सयोगीशकः । . वशिष्ठो दन्त-तालव्यमध्यो, वर्गद्वितीययुक् ॥३१॥ गोनीयमुनौ तुल्यौ पतञ्जलि-पतञ्जलौ । वररुचौ कात्यायन-कात्यौ, कक्षीवति स्मृतः ॥३११॥ स्फोटायनः स्फौटायनः, पालकाव्ये करणुभूः । कारेणवो मुनिभेदे स्यादत्रिरत्रिणा समम् ॥३१२॥ अपिशलिरापिशलिः कशात् कृत्स्नः सकृत्सकः ।