SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ २२ .. शब्दरत्नाकरे राजिकायामासुरी स्यादसुरी च क्षुधा-क्षतात् । परोऽभिजननः शब्दो योज्यते शब्दवेदिभिः ॥ ५५ ॥ कुस्तुम्बुरुवायुंकारस्तस्मिन् धान्यं च धान्यकम् । धन्या धन्याकं धान्याकं धानेयक-धनीयके ॥ ५६ ॥ धनकोऽथ कोलके स्याद् मरीचं मरिचं तथा । ऊषणं ह्युषणं विश्वा शुण्ठी शुण्ठिश्च, पिप्पली ॥५७॥ उषणा स्यादूषणापि, कृष्णा च कृष्णतण्डुला । गजपिप्पल्या वशिरो वसिरः, सर्वग्रन्थके ॥ ५८ ॥ ग्रन्थकं शिरोऽनादन्तः, क्ली सान्तं चटकाशिरः । व्योषे त्रेः कटु-कटुके, अजाजी जीर-जीरकौ ॥ ५९॥ जीरणो जरणः कणः जीरकः कृष्णजीरके। सुषवी दन्त्य-मूर्धन्य तालव्यान्तर्गता पृथुः ॥ ६ ॥ पृथ्वी उत्कुञ्चिका चोपकुञ्चिकाप्यथ हिङ्गुनि । वाल्हीकं वाल्हिकं, जग्धौ खादनं खदनं घसिः॥६१॥ निघसोऽपि विष्वाणाऽवष्वाणौ जमन-जेमने । ग्रासे गुडेरक-गुडौ गुडेरोऽपि गडोलयुक् ॥ ६२ ॥ गण्डोलः कवलोपेतः कवकः, सुहिते पुनः । आघ्राता-ऽऽघ्राणको, भुक्तत्यक्ते फेला च फेलियुक् ॥६३॥ मांसाशिनि शावलः स्याच्छौष्कलः शाष्कलिस्तथा । .१ क्षुधाक्षतशब्दाभ्यां परोऽभिजननशब्दः क्षुधाभिजननः क्षताभिजननइति । २ वार्धिप्रमिताः, चत्वार इत्यर्थः । ३ तिक्तपिप्पली । ४ शुण्ठिमरीच. पिप्पलीनां युगपद्वाचको त्रिशब्दात्परौ कटु-कटुकशब्दौ ।
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy