SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ तृतीयः काण्डः । मायावी, दाण्डाजनिको दण्डाजनिक इत्यपि । मायायां शठता - शाठ्ये, व्याजे लक्ष्यं तु लक्षयुक् ॥ २६॥ संख्यायामपि, पिशुने मत्सरो मत्सरी खलः । १९ प्रखलः खुल्लकः क्षुल्लः क्षुद्रकः क्षुद्रसंयुतः ॥ २७ ॥ कौलीने वादिको जाते जातो जातात्परो मतः । तस्करे चोरटवोर चौरौ पाटच्चरान्वितः ॥ २८ ॥ पटच्चरचौरकर्म चौर्य चोरिका स्तेनवत् । स्तेयं स्तैन्यं, हृतधने लोप्त्रं लोत्रं च लोद्रकम् ॥२९॥ मन्दे त्वलस आलस्यश्चतुरे दक्ष - दक्षिणौ । उष्णोष्णौ, दातरि तु स्यादुदारोऽनुदारयुक् ॥ ३० ॥ बहुप्रदे स्थूललक्षः स्थूललक्ष्योऽपि यान्तिमः । दानेंहतिरंहितिश्च प्रादेशन- प्रदेशने ॥ ३१ ॥ निर्वापणं निर्वपणं, याचके तु वनीपकः । वनीयक वनबकौ प्रार्थनायां तु याचना ॥ ३२ ॥ याचैषणाऽध्येषणापि भवितरि भविष्णुयुक् । भूष्णुर्भविष्यति भवी भाव्यथो स्यात् प्रसारिणि ॥ ३३ ॥ विसारी च विसृमरो विसृत्वरयुतो मतः । लज्जाशीले तु लज्जालुर्लज्जू : स्यात्, क्षमिता क्षमी ||३४|| क्षन्ता सहिष्णुः सहने, ईर्ष्यालुः कुहने स्मृतः । ईर्ष्याश्च, क्रोधने क्रोधी, बुभुक्षायां तु रोचकः ॥ ३५॥ १ यकारान्त इत्यर्थः । २ ईर्ष्यावति । "
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy