________________
द्वितीयः काण्डः ।
चतुर्वेषु च वाग् वाग्मी प्रख्या आख्याः प्रचक्षसा । सकारान्तास्त्रयोऽमी स्युः, शुक्रे काव्य-कवी भृगुः॥२१॥ भार्गवेऽप्यपुत्रे तु शनैश्वर-शनी शनैः । अव्ययं, सौरि-सौरौ द्वौ दन्त्य-तालव्यपूर्वकौ ॥२२॥ राहौ खर्भाणु-वर्भानू तमास्तमस्तमोऽपि च । हौ सान्तौ तृतीयोऽदन्तो, ध्रुव उत्तानपादकः॥२३॥ औत्तानपादिः, कौम्भौ तु मैत्रावरुण-वारुणी । मैत्रावरुण आग्नेय अग्निमारुत इत्यपि ॥ २४ ॥ अगस्त्येऽगस्तिरेकोक्त्या शशि-भास्करयोः पुनः । पुष्पदन्तौ पुष्पवन्तावुपलिङ्गमुपद्रवे ॥ २५ ॥ .. उपालिङ्गं रिष्टा-ऽरिष्टे माङ्गल्ये चाप्यनेहसि । । कालेऽतिथोऽतिथः कालविशेषे सुषमा तथा ॥ २६ ॥ दुःषमा षोऽत्र मूर्धन्यः, काष्ठा त्वष्टादश स्मृताः।। निमेषाष्ठाग्रगो वर्णोऽत्र घट्यां नाडि-नाडिके ॥ २७ ॥ नाडी-नाली-नालिकाश्च, दिने तु दिवसो दिवम् । दिवा प्रतिदिवा नान्तौ धुरस्त्र्यव्ययमप्यहः ॥ २८ ॥ अत्यहे ङ्यन्त-टाबन्तावहः सन्तोऽथ वासरः। वाश्रश्च दन्त्य-तालव्यमध्यौ घस्रश्च हस्रयुक् ॥ २९ ॥ दिवाव्ययं सप्तम्यर्थे, व्युष्टे कल्यं सकाल्यकम् । उषः-प्रत्युषसी सान्तौ प्रत्यूषोऽपि प्रगेऽव्ययम् ॥३०॥ प्राह्ने पूर्वेचुरेतौ च गोस-गोसर्गको समौ । मध्याह्ने तु दिवामध्यं मध्यं मध्यंदिनं तथा ॥ ३१ ॥