SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ॥ अर्हम् ॥ श्रीविजयधर्मसूरिगुरुभ्यो नमः । वाचनाचार्यश्री साधुसुन्दरगणिविरचितः श्रीशब्दरत्नाकरः । ध्यात्वाऽर्हतो गुरून् प्राज्ञान् वाग्देवीमपि भक्तितः । शब्दरत्नाकरं कुर्वे शब्दभेदार्थसंग्रहम् ॥ १ ॥ अर्हद्देवनृतिर्यञ्च नैरेयाः साङ्गकाः समाः । अव्ययाश्च क्रमोऽत्रायं लक्ष्यतां सुखलब्धये ॥ २ ॥ भवेज्जिनेऽर्हन्नर्हन्तः सार्वः सर्वाय इत्यपि । तीर्थङ्करस्तीर्थकरः परमेष्ठी ठकारयुक् ॥ ३ ॥ वृषभर्षभौ नाभेये, शंभवे संभवोऽपि च । एकादश जिने श्रेयान् श्रेयांसो, द्वादशार्हति ॥ ४ ॥ वसुपूज्य-वासुपूज्यावनन्तोऽनन्तजिद् मतः । विंशे जिने मुनिस्तद्वद् मुनिसुव्रत - सुव्रतौ ॥ ५ ॥ अरिष्टनेमौ नेमिश्र नेमी नन्तोऽपि कथ्यते । श्रीपार्श्वः पार्श्वनाथश्च वामेये, चरमेऽर्हति ॥ ६॥ महावीरः स वीरव, तुर्यार्हन्तस्य वप्तरि । दन्त्यादिः संवरः, कुन्थुबप्पे शूरश्च सूरयुक् ॥ ७ ॥ मरुदेवा मरुदेव्यप्याद्यार्हन्मातरि स्मृता । तालव्यमध्या त्रिशला, पञ्चमार्हदुपांसके ॥ ८ ॥ १ सप्तदशजिनपितरि ।
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy